________________
Jain Educatio
'बत्तीस 'मित्यादिगाथाद्वयं, एकादयो द्वात्रिंशत्पर्यंताः सिद्ध्यन्तो निरन्तरमष्टौ समयान् यावत् प्राप्यन्ते, अयमत्र परमार्थः - प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिद्ध्यन्ति, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, एवं तृतीयेऽपि चतुर्थेऽपि यावदष्टमेऽपि समये जघन्यत एको द्वौ वा सिद्ध्यतः उत्कर्षतो द्वात्रिंशत् सिद्ध्यन्ति, परतोऽवश्यमन्तरं समयादिकं, न कोऽपि सिद्ध्यतीत्यर्थः, तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं समयादिकं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः षट् समयान् यावत् प्राप्यन्ते, ततः परमवश्यमन्तरं, तथा एकषष्ट्यायो द्विसप्ततिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः ऊर्ध्वं नियमादन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतश्चतुरः समयान् यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतस्त्रीन् समयान् यावदासाद्यन्ते, परतो नियमादन्तरं, तथा सप्तनवत्यादयो व्युत्तरशतपर्यन्ता निरन्तरं सिद्ध्यन्त उत्कर्षतो द्वौ समयौ यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा त्र्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्ध्यन्तो नियमादेकमेव समयं यावत्प्राप्यन्ते, परतोऽवश्यमन्तरं समयादिकमिति जघन्यतः, उत्कर्षतश्च षण्मासान्तरं षण्मासान् यावत् न कोऽपि सिद्ध्यतीत्यत्र सर्वत्र भावना || ४७८ || ५२ || 'थीवेए पुंवेए नपुंसए सिज्झमाणपरिसंखं' इति त्रिपञ्चाशत्तमं द्वारं विवरीतुमाह
वीसित्थीगाउ पुरिसाण अट्ठसयं एगसमयओ सिज्झे । दस चेव नपुंसा तह उवरिं समएण पडिसेहो ॥ ४८० ॥ वीस नरकप्पजोइस पंच य भवणवण दस य तिरियाणं । इत्थीओ पुरिसा पुण
For Private & Personal Use Only
www.jainelibrary.org