________________
RSSISAIRॐॐॐॐ
गतेषु सुनतिजिनेन्द्रः समुत्पन्नो-मुक्तो जातः॥३९४॥ तदनन्तरं नवतिसहस्रेषु सागरोपमकोटीनां व्यपगतेषु पद्मप्रभः समुत्पन्नः शिवश्रियमवा-18 पदित्यर्थः, तदनन्तरं नवसु सागरकोटीनां सहस्रेषु गतेषु श्रीसुपार्श्वनामा जिनः समुत्पन्नो निर्वाणमगच्छदित्यर्थः ॥३९५॥ सुपार्थानन्तरं च सागरोपमकोटिशतेषु नवसु गतेषु जातः सिद्धत्वेन चन्द्रप्रभो 'जनानन्दो' जनानन्दकारी, तदनन्तरं नवतौ सागरोपमकोटीषु गतासु सुविधिजिनो 'देशितः' कथितः सिद्धत्वेन 'समये सिद्धान्ते॥३९६॥ सुविधेरनन्तरं च शीतलजिनो महात्मा सागरोपमकोटिषु नवसु गतासु 'निर्दिष्टः' कथितो मुक्तत्वेनेति, तदनन्तरमनेन कालेन सागरोपमैकशतषट्षष्टिवर्षलक्षषड्विंशतिवर्षसहस्ररूपेण ऊनायां सागरोपमकोट्यां गतायां श्रेयांसः सिद्धत्वेन जातः, 'तओ पुरो अंतरेसुत्ति ततः-तस्मात् श्रीश्रेयांसजिनात् पुरः-अग्रतोऽनन्तरमित्यर्थः 'इति' वक्ष्यमाण प्रकारेण भणिष्यमाणेषु अन्तरेषु व्यतिक्रान्तेषु वक्ष्यमाणा वासुपूज्यादयो जिनाः सिद्धा इति ॥३९७-८।। एतदेवाह-'चउप्पन्ना अयरेहिं' इत्यादि, श्रेयांसादनन्तरं चतुष्पञ्चाशत्सु अतरेषु गतेषु वासुपूज्यो जिनो जगदुत्तमो जातः सिद्धत्वेनेति, तदनन्तरं विमलजिनो विमलगुणौघस्त्रिंशत्यतरेषु गतेषु रजोरहितः-कर्मनिर्मुक्तो जातः सिद्ध इत्यर्थः ॥३९९।। तदनन्तरं नवस्वतरेषु गतेषु अनन्तो जिनो जातो-निवृत्त इति, तदनन्तरं चर्तुष्वतरेषु गतेषु धर्मस्तु-धर्मनामा जिनो धर्मधुराधवलो मोक्षं जगामेति, तदनन्तरं त्रिष्वतरेषु चतुर्भागीकृतस्य 'पल्यस्य' पल्यो|पमस्य त्रिभिर्भागैन्यूनेषु गतेषु श्रीशान्तिनाथः शिवश्रियमशिश्रियत्, तदनन्तरं चतुर्भागीकृतस्य पल्योपमस्य ये पूर्व त्रयो भागा उद्धरितास्तन्मध्याद्भागद्वितये गते कुन्थुजिनो निवृत्तः, तदनन्तरं एकस्मिन् पल्योपमचतुर्भागे वर्षकोटिसहस्रन्यूने गते श्रीअरो जिनेश्वरो भणितः सिद्धत्वेनेति ॥४००-१॥ तदनन्तरं मल्लिजिनस्त्रिशल्यरहितो-मायानिदानमिथ्यादर्शनलक्षणशल्यत्रयरहितो वर्षाणां कोटिसहस्र गते जातः सिद्धत्वेनेति, तदनन्तरं चतुष्पञ्चाशद्वर्षलक्षेषु गतेषु सुव्रतः-शोभनवतः सुब्रतो॥४०२॥ जिनः सिद्धः, तदनन्तरं षट्सु वर्षलक्षेषु गतेषु नमिनाथः
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org