SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञानवि० 1196 11 Jain Education एहिं वीरो जिणेसरो जाओ । दूसमअइदूसमाणं दोन्हंपि दुचत्तसहसेहिं ॥ ४०४ ॥ पुज्जइ कोडाकोडी सहजिणाओ इमेण कालेण । भणियं अंतरदारं एयं समयानुसारेणं ॥ ४०५ ॥ ‘एत्तो’ इत्यादि गाथात्रयोदशकं, 'इतो' जिननिर्वाणस्थानानन्तरं जिनान्तराणि - जिनानामन्तरालान्यहं वक्ष्ये कथयिष्यामि, किलेत्याप्तोपदेशे, अत्र च 'लक्खेहिं' इत्यादिपदेषु सप्तम्यर्थे तृतीया, तत ऋषभस्वामिनः सकाशादजितो जिनः पञ्चाशत्कोटिलक्षेषु सागरोपमाणां गतेषु समुत्पन्नः सिद्धत्वेनेति शेषः, यद्वाऽनेकार्थत्वाद्धातूनां समुत्पन्नः सिद्ध इत्यर्थः, न तु समुत्पन्नो जात इति, इह हि 'उसहसामिणो' इत्यादिपदेषु अवधौ पञ्चमी, अवधिश्च द्विधा - अभिविधिर्मर्यादा च तत्र यद्यभिविधौ पञ्चमीतिकृत्वा समुत्पन्नो-जात इति व्याख्यायेत तदा ऋषभस्वाम्यादिजन्मकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च ऋषभस्वामिनः सर्वायुः कालमानेनाधिकेषु | दुष्षमसुषमारकस्य एकोननवतिपक्षेषु अवशिष्यमाणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रसज्येत, आगमे तु अन्यूनाधिकेषु एकोननवतिपक्षेष्ववशेषेषु श्रीमहावीरसिद्धिरुक्तेत्यागमविरोधप्रसङ्गेन नात्राभिविधौ पञ्चमी, किन्तु मर्यादायामेव, तत्रापि यदि समुत्पन्नो जात इति व्याख्यायेत तदा ऋषभस्वाम्यादि निर्वाणकालाद्यथोक्तमजितादिजन्मकालमानं स्यात्, ततश्च यथोक्तजिनान्तराणां कालमानैरेव चतुर्थारकः परिपूर्णः, श्रीमदजितादिजिनत्रयोविंशतेः सर्वायुः कालमानं तु जिनान्तरकालासगृहीतत्वात्तदधिकमापद्यत इत्यतोऽप्रेतनोत्सर्पिण्यां श्रीमन्महावीरसिद्धिः प्रसज्येत, न चैतदिष्टं, तस्मादृषभस्वाम्यादि निर्वाणाद्यथोक्तकालेन अजितादयः समुत्पन्नाः - सिद्धा इत्येवं व्याख्यातव्यं, नान्यथेति ॥ ३९३ ॥ तथा 'तीसाए संभवजिणो' त्ति श्रीअजितजिननिर्वाणात् त्रिंशत्सागरोपमकोटिलक्षेषु गतेषु श्रीसम्भवजिनः समुत्पन्नः सिद्ध इत्यर्थः सम्भवानन्तरं च दशसु सागरोपमकोटिलक्षेषु गतेषु अभिनंदनजिनः समुत्पन्नो निर्वृत्त इत्यर्थः, तदनन्तरं नवसु सागरकोटिलक्षेषु For Private & Personal Use Only ३५ जिनान्तराणि गा. ३९३ ४०५ ॥ ९८ ॥ www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy