SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० २८ जिनतनुमानं गा.३७७ SUCCESGRRORNARROCESSIOSAR जिणनेमी १० ॥ ३७७॥ नव हत्थपमाणो पाससामिओ सत्त हत्थ जिणवीरो । उस्सेहअंगुलेणं सरीरमाणं जिणवराणं ॥ ३७८॥ 'पंचे'त्यादि गाथाद्वयं, तत्र प्रथमो जिन:-ऋषभस्वामी पञ्चधनुःशतः-पञ्च धनुषां शतानि अर्थादेहप्रमाणं यस्य स तथा पञ्चधनु:शतप्रमाण इत्यर्थः, ततोऽजितादयः 'क्रमेण' परिपाट्या पञ्चाशता धनुषां हीना यावत्सुविधिजिनः, कोऽर्थः ? पञ्चभ्यो धनुःशतेभ्यः पञ्चाशत्पञ्चाशत्पात्यन्ते, ततोऽजितजिनस्य चत्वारि धनुःशतानि पञ्चाशद्धनुरधिकानि देहमानं, एवं सम्भवस्वामिनश्चत्वारि धनुःशतानि, अभिनन्दनस्य पञ्चाशदधिकानि त्रीणि धनुःशतानि, सुमतिनाथस्य त्रीणि धनुःशतानि, पद्मप्रभस्य पञ्चाशदधिके द्वे धनुःशते, सुपार्श्वस्य द्वे धनुःशते, चन्द्रप्रभस्य सार्ध धनुःशतं, सुविधिस्वामिनः परिपूर्ण धनुःशतं, 'दसहीण जा अणंतो'त्ति सुविधेरनन्तरं यावदनन्तजि. नस्तावत्तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशमिर्धनुर्मिहींना वक्तव्याः, ततोऽयमर्थः-सुविधिजिनतनुमानाद्धनुःशतलक्षणाद्दशस्वपनीतेषु शीतलस्य नवतिर्धनूंषि देहमानं, एवं श्रेयांसस्य अशीतिर्धषि, वासुपूज्यस्य सप्ततिः, विमलस्य षष्टिः, अनन्तजिनस्य पञ्चाशद्धनूंषि, 'पंचूणा जाव जिणनेमि'त्ति अनन्तजिनादनन्तरं तीर्थकृतः क्रमेण पञ्चभिः पञ्चभिन्यूनास्तावद्वक्तव्या यावन्नेमिजिनः, ततश्चायमर्थः-अनन्त-15 जिनदेहमानात्पञ्चाशद्धनुःस्वरूपात् पञ्चसूद्धृतेषु धर्मजिनस्य पञ्चचत्वारिंशद्धनूंषि देहमानं, एवं शान्तिनाथस्य चत्वारिंशद्धषि, कुन्थुनाथस्य पञ्चत्रिंशद्धनूंषि, अरवामिनस्त्रिंशत् , मल्लिजिनस्य पञ्चविंशतिः, मुनिसुव्रतस्य विंशतिः, नमिनाथस्य पञ्चदश, अरिष्टनेमेर्दश धनूंषि, नवहस्तप्रमाणः पार्श्वस्वामी, सप्तहस्तप्रमाणश्च वीरजिनः, इत्येवमुत्सेधाङ्गुलेन-'परमाणू रहरेणु तसरेणु' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विज्ञेयमिति ॥ ३७७-३७८ ।। २८ ।। साम्प्रतं 'लंछणाणि'त्ति एकोनत्रिंशत्तमं द्वारमाह ॥९५॥ Jain Education a l For Private Personel Use Only GMw.jainelibrary.org IXI
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy