SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ एव भवेत् , विरतेः खण्डनात् , अपरं च-बन्धादीनां प्रत्याख्येयत्वे विवक्षितव्रतेयत्ता विशीर्यते प्रतिव्रतमतीचारवतानामाधिक्यादिति, एवं च न बन्धादीनामतीचारतेति ब्रूमः, सत्यं, हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषां, न च बन्धादिकरणेऽपि च व्रतभङ्गः कित्वतीचार एव, कथं ?, इह द्विविधं व्रतं-अंतर्वृत्त्या बहिर्वृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात् परप्राणप्रहाणमविगणयन् वन्धादौ प्रवर्तते न च परो विपद्यते तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनाऽऽन्तरवृत्त्या व्रतस्य भङ्गो हिंसाया अभावाञ्च बहिर्वृत्त्या पालनमिति, देशस्य भजनात् देशस्य च पालनादतीचारव्यपदेशः प्रवर्तते, यदाहुः-"न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमेऽनपेक्षः ॥ १ ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाइयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ २॥" यचोक्तं 'व्रतेयत्ता विशीर्यते' इति, तदयुक्तं, विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव, ततः स्थितमेतद्-बन्धादयोऽतीचारा एव, बन्धा| दिप्रहणस्योपलक्षणत्वान्मतन्त्रप्रयोगादयोऽन्येऽप्यतीचारतया विज्ञेया इति ॥ द्वितीयव्रतातीचारानाह-'सहसे'त्यादि, सहसा-अनालोच्य कलङ्कनं-कलङ्कस्य करणमभ्याख्यानमसद्दोषस्यारोपणमितियावत् चौरस्त्वं पारदारिकस्त्वमित्यादि प्रथमोऽतीचारः, ननु सहसा कलङ्कनमसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाद्भङ्ग एव न त्वतीचार इति, सत्यं, किन्तु यदा परोपघातकमनाभोगादिनाऽभिधत्ते तदा सकेशाभावेन व्रतसाक्षेपत्वान्न भङ्गः परोपघातहेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपोऽतीचारः, यदा तु तीब्रसङ्केशादभ्याख्याति तदा भङ्ग एव व्रतनिरपेक्षत्वादिति, तथा रहः-एकान्तस्तत्र भवं रहस्य-राजादिकार्यसम्बद्धं यदन्यस्मै न कथ्यते तस्य दूषणं-अनधिकृतेनैवाकारेङ्गितादिभित्विा अन्यस्मै प्रकाशनं रहस्यदूषणं, यथा रहसि मन्त्रयमाणान् कांश्चिदवलोक्य गृहीतमृषाव्रतः कश्चिद्वदति-एते हि राजापकारादि COCR-ACEARNA- 4- CAMPA ५ en Education For Private 3 Personal Use Only Pjainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy