________________
कणयाइ देइ सयणाणं२। धणधनाइ परघरे बंधइ जा नियमपज्जंतो३ ॥२७८॥ दुपयाइँ चउप्पयाई
गन्भं गाहेइ ४ कुप्पसंखं च । अप्पधणं बहुमोल्लं ५ करेइ पंचमवए दोसा ॥ २७९॥ 'पढमवये'यादि, प्रथमव्रते-प्राणातिपातविरमणलक्षणे नरतिरश्चामन्नपानव्यवच्छेदः तथा बन्धस्तथा वधस्तथाऽतिभारारोपणं तथा| छविच्छेदः, एते पञ्चातीचारा-मालिन्यरूपा भवन्ति, तत्रान्नपानव्यवच्छेदो-भोजनपानयोनिषेधो द्विपदचतुष्पदानां क्रियमाणोऽतीचारः ४ प्रथमत्रतस्य, ननु यद्येवं वरादिरोगाक्रान्तानां पुत्रादीनां लङ्घनादिविधापने गृहीतहिंसाविरमणव्रतस्यातीचारो भविष्यति, तद्युक्तं, | सोपस्काराणि हि सूत्राणि भवन्ति ततः क्रोधादिवशत इति सूत्रे अध्याहर्तव्यं, ततः क्रोधादिदूषितमना यद्यन्नादिनिषेधं करोति तदाऽतीचारः, यदा तु हितबुद्ध्या रोगाद्यभिभूतानां पुत्रादीनामन्नादिनिषेधं करोति तदा नातीचार इति, एवमन्यत्रापि क्रोधादिवशत इति
द्रष्टव्यं, न चैतदनार्ष, यतोऽन्यत्राभ्यधायि-"बंधवहछविच्छेयं अइभार भत्तपाणवोच्छेयं । कोहाइदूसियमणो गोमणुयाईण नो कुणइ | M॥१॥" [बन्धवधच्छविच्छेदमतिभार भक्तपानव्यवच्छेदं क्रोधादिदूषितमनाः गोमनुजादीनां न करोति ॥१॥] इत्यादि, किं ब
हुना?, यद्रोगाद्यभिभूतानां यच्चापठनादिपराणां पुत्रादीनां यच्च शान्तिकृते उपवासादिकारणं तन्नातीचार इत्यर्थः, तथा बन्धो-रज्ज्वा
दिना गोमनुष्यादीनां नियन्त्रणं स्वपुत्रादीनामपि विनयग्राहणार्थ क्रियते ततः क्रोधादिवशत इत्यत्रापि सम्बन्धनीयं, अतः प्रबलकषायोHदयाद् यो बन्धः सोऽतीचार इति, तथा वधो-लकुटादिना हननं, कषायादेव वध इत्यन्ये, तथा 'अतिभारारोपणं' अतिमात्रस्य-वोढुमशक्यस्य
भारस्यारोपणं-गोकरभरासभमनुष्यादीनां स्कन्धे पृष्ठे शिरसि वा वहनायाधिरोपणं, इहापि क्रोधाल्लोभावा यद्धिकभारारोपणं सोऽतीचार इति, तथा 'छविच्छेदः' छविः-त्वक् तद्योगाच्छरीरमपि वा छविः तस्याश्छेदो-द्वैधीकरणं, स च पावल्मिकोपहतस्य पुत्रादेरपि क्रियते,
Jain Education
For Private Personal Use Only
POMainelibrary.org