SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ स्तेन. दृष्टान्त: अनुमोदनायां राजदुष्टो, राजदुष्टोपलक्षितास्तत् प्रशंसाकारिणः ॥ ११८ ॥ प्रथमं स्तेनदृष्टान्तं भावयतिगोणीहरण सभूमी नेऊणं गोणिओपहे भक्खे। निविसया परिवेसण ठियावि ते कूविया घत्थे ॥११९॥ गाथाक्षरार्थः कथनकादवसेय इति तदेवोच्यते-(दृ०५)-इह कापि ग्रामे बहवो दस्यवस्तैश्च कुतोऽपि गवामपहरणं कृतं, स्वग्राम प्रति चलिताः, स्वभूमि-स्वदेशं प्राप्ताः, तेषां च पथि गच्छतां केऽप्यन्ये दस्यवः पथिका मिलिताः, तेऽपि सहव सन्ति, ततो भोजनवेलायां कतिपया गा विनाश्य भोजनाय तन्मांसं पक्तुमारब्धं, इतः केऽप्यन्ये पथिका: समेतास्तेऽपि चौर जनार्थमामन्त्रिताः, अथ गोमांसे पक्के सति केऽपि चौराः पथिकाच निर्विशका जाता भोजनं कतुं प्रवृत्ता इति, केऽपि गोमांसं बहुपापमिति भोजनाशां मुक्त्वा परिवेषने स्थिताः, अत्रान्तरे कूजका-व्यावहारकारिणो गवां व्यावर्तकाः पुरुषाः समागताः, तैः सर्वेऽपि-भोक्तारः परिवेषकाच पथिका वयमिति वाणा अपि चौरवत् 'घत्थे 'त्ति गृहीता विनाशिताश्च ॥ ११९ ॥ अमुमेवार्थ दार्शन्तिकेन योजयतिजेऽवि य परिवेसंती,भायणाणिधरंति य । तेऽवि बज्झति तिव्वेण, कम्मुणा किमु भोइणो? ॥१२०॥ चौरवत् येऽपि च साधवः प्रतिसेवन्ति अन्यानीतमाधाकाहारयन्ति, ये भाजनानि धरन्ति तेऽपि तीव्रण कर्मणा बध्यन्ते, किं पुनराधाकममोजिन ? इति, इह चौरस्थानीया आधाकर्मनिमन्त्रिणः, साधवो गोमांसभक्षकचौरपथिकस्थानीयाः स्वयं गृहीतनिमन्त्रिताधाकर्मभोजिनो गोमांसपरिवेषकादिरूपा, गोमांसमाधाकर्मसदृशमित्यादि ॥ १२० ॥ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy