SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रति क्षमा रत्नीयापर्युपेता श्रवणादीनां स्वरूपम् पिण्ड नियुक्तिः अन्येन-साधुना उपनीतं आनीतं आधाकर्म योऽश्नाति स प्रतिषेवणं करोतीति सम्बन्धः, स चाधाकर्म भुञ्जानः केनापि 'चोइओ'त्ति, विक्षिप्तः प्रेरितः सन्ने भणति, न मे दोषो येनानीतं तस्य दोषः, तथा चात्र दृष्टान्तः, यथा परहस्तेनाङ्गारानाकर्ष(न्) न दह्यते, एवं 'खु'निश्चितमहं शुद्धो, दोषो पुनर्ददतो यथा परस्य स्वहस्तेनाङ्गारानाकर्षतः, एवं कूटया उपमया समयार्थमजानानो मूढः प्रतिषेवणं कुरुते ॥ ११४-११५ ॥ प्रतिश्रवणमाहउवओगंमि य लाभं कम्मग्गाहिस्स चित्तरक्खट्रा। आलोइए सुलद्धं भणइ भणंतस्स पडिसुणणा॥ यो गुरुः कर्मग्राहिण-आषाकर्मग्रहणप्रवृत्तस्य साधोश्चित्तरक्षार्थ उपयोगकरणवेलायां लाभ भणति, आधाकर्मणि गृहस्थगृहादानीयालोचिते सति सुलब्धं शोभनं जातमिति भणति, तस्य गुरोरेवं मणतः प्रतिश्रवणं नाम दोषः 'प्राकृतत्वात् । स्त्रीत्वनिर्देशः' ॥ ११६ ॥ संवासानुमोदनयोः स्वरूपमाहसंवासो उ पसिद्धो अणुमोयण कम्मभोयगपसंसा। एएसिमुदाहरणा एए उ कमेण नायबा ॥११७॥ ___ संवासः-आधाकर्मभोजिमिः सह वसनं स प्रसिद्ध एव, अनुमोदना आधाकर्मभोजकप्रशंसा, एतेषां प्रतिषेवणादीनां एतानि क्रमेणोदाहरणानि ज्ञातव्यानि ॥ ११७ ॥ पडिसेवणाएँ तेणा पडिसुणणाए उ रायपुत्तो उ।संवासंमि य पल्ली अणुमोयण रायदुट्ठोय ॥११८॥ प्रतिषेवणस्य स्तेना उदाहरणं, प्रतिश्रवणस्य राजपुत्री, राजपुत्रोपलक्षिताः शेषाः पुरुषा, संवासे पल्लीवास्तव्या वणिजः ॥२४॥ ॥२४॥ Jain Education Inter For Private & Personel Use Only T ww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy