________________
लड्ड्कप्रियस्य कथानकम्
क्षमा रत्नीयाबचूर्युपेता
श्रीपिण्डनियुक्तिः
॥१९॥
अत्र कथानकादर्थोऽवसेय इति तदुच्यते (दृ. ४)-श्रीस्थलकपुरे भानुनृपो रुक्मिणी राज्ञी तयोः सुरूपनामा पुत्रोऽभीष्टमोदकत्वेन मोदकप्रिय इति ख्याति लेमे । स चान्यदा वासगृहादनुयात्रार्थ निर्गमनं कृतवान् , आस्थान्यां गत्वा योग्य| क्रीडा तेन प्रारब्धा, काले भोजनावसरे प्राप्ते घटेषु शरावेषु च लडकप्रियस्य जनन्या कृत्वा पूर्वकृता वा मोदकाः प्रेषिताः, तेन परिजनेन समं भुक्तास्ततो रात्रावपि योग्यक्रीडाविलोकनेन जागरणभावतस्ते न जीर्णाः, कुमारस्य तस्मादजीर्णदोषात् समुद्भवस्तत्समुद्भवोऽशुचिपमुत्थो वातनिसर्गोऽभवत् , नासायां तद्गन्धे वा याते आहारोद्गमचिन्ता जाता, यथाऽमी मोदकाः शुभा एव परं द्विधा मलप्रभवो देहस्तत् सम्पर्कादशुचयो जाता इति, अथवा बृहवृत्ताविति व्याख्या, (पृ. ३३) मारुतनिसर्गे जाते आहारोद्गमचिन्ता जाता, यथा <sमी मोदकाः शुभा एव परं द्विधा मलप्रभवो देहस्तत्सम्पर्कादशुचयो जाता> इति समुद्भवति, घृतगुडादिसमुद्भवा एते मोदकास्तस्मात् शुचिसमुत्था एव, सूत्रे च, जातावेकाचनं केवलं द्विधा मलप्रभवो देहस्तद्योगादशुचय इति, 'सूचनात् सूत्रमि' ति देह इति योगतः, तस्य कुमारस्यैवं वैराग्योद्गमेन सम्यत्वज्ञान चारित्राणां युगपत्क्रमेण वा उद्गमो जातस्ततः केवलज्ञानोद्गम इति गाथार्थो भावार्थोऽपि ॥ ८८-९० ॥ यदुक्तं चारित्रोद्गमेनाधिकारस्तत्र चारित्रं शुद्धमेव, कथं शुद्धिरित्याहदसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी । चरणेण कम्मसुद्धी उग्गमसुद्धी चरणसुद्धी ॥९१॥
दर्शनज्ञानप्रभवं चारित्रं तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिरिति कारणमभ्यन्तरं शुद्धः, चरणेन कर्मशुद्धिर्जायते न
॥१९॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org