________________
Jain Education Intern
सम्प्रति न सन्ति, यश्च यत्राशक्तस्तं प्राप्य प्रमोदेन बध्यते, अतः श्रीपर्णी वृक्षाघः श्रीपर्णीफल सदृश मोदककरणं कुर्मः, तत्र च पाशान् स्थापयाम इति राजपुरुषैश्चिन्तितम्, तथैव च कृतम्, तेषां च मृगानां यूथाधिपतिनां समं तत्रागमनं जातं यूथपतिमृगान् उक्तवान्, विदितं प्रतीतमेतत् कुरङ्गाणां यदा श्रीपर्णी सीदति धातूनामनेकार्थत्वात् ' फलति तस्मान्नेदानीं फलानि सम्भवन्ति सम्भवन्तु वा तथापि कथं ( पुञ्जक) पुञ्जकाकारेण स्थितानि । वातवशाच्चेनैव पुरारापि वाता वान्ति न पुनरेवं पुञ्जकपुञ्जकाः फलानामभवन् तस्मात् केनापि धूर्तेण भवबन्धनाय कूटं कृतमिति, मायूयमेतेषामुपकण्ठं गमत इत्युक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घायुषो जाता, यैस्त्वाहारलम्पटतया न प्रतिपन्नं ते पाशबन्धनादि दुःखयुता जाता । इह यूथाधिपतेः श्रीपर्णीफलसममोदकसदोषत्व निर्दोषत्वविलोकनं द्रव्यगवेषणा, इह " पसत्थ अप्पसत्थ उवमाओ " ये यूथाधिपतिवचनकारिणः ते प्रशस्ताः, इतरे त्वप्रशस्ता इति, अनेन दार्शन्तिकोऽप्यर्थः सूचितस्तथा हि-यूथपतिसमा आचार्याः मृगसमा साधवः, गुरुवचसा आधाकर्मादिदुष्टमाहारं त्यजन्ति ते प्रशस्ताः, इतरे त्वप्रशस्ताः (६.२ )
हरन्तसन्निवेशे समिताः सूरयः समागताः, कदापि श्राद्धैः साधुनि मित्तमात्रा कम्र्मादि कारितं, सूरिभिर्ज्ञातं निवारिताः सावो ये गतास्तत्राहारग्रहणार्थं ते दुर्गतिदुःखभाजिनोऽजायन्त, ये तु गुरुवचनासक्तास्ते संसारपारमगुरिति ॥८०-८१-८२॥ अथ गाथाद्वयेन गजदृष्टान्तमाह
हत्थिग्गहणं गिम्हे अरहट्टेहिं भरणं च सरसीणं । अच्चुदएण नलवण आरूढा गयकुलागमणं ॥८३॥
For Private & Personal Use Only
द्रव्यगवेषणायां मृग
दृष्टान्तः ।
www.jainelibrary.org