________________
Jain Education Inter
तच पिण्ड इति व्यपदेशो युज्यते, तर्हि मूर्त्तिविमुक्तेष्वमूर्तेष्वपि अरूपिषु स पिण्ड इति व्यपदेशो युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्परसंयोगस्य सङ्ख्याबाहुल्यस्य च सम्भवात् तथा हि क्षेत्रप्रदेशाः परस्परं नैरन्तर्यलक्षणेन सम्बन्धेन सम्बद्धा अवतिष्ठन्ते, तथा च सङ्ख्याबाहुल्यमपि, एवं कालेऽपि तच्च धर्म्मसङ्ग्रहिण्यादौ विशेषाद्विलोक्यम् ।। ५६ ।। अथ क्षेत्र पिण्डशब्दप्रवृत्या अविरोधं दृष्टान्तद्वारेण समर्थयते—
जतिपसो धोतिसुवि पएसेसु जो समोगाढो । अविभागिण संबद्धो कहं तु नेवं तदाधारो ? ॥५७॥
यथा कश्चित्रिप्रदेशिकः त्रिपरमाण्वात्मकः स्कन्धस्त्रिष्वप्याकाशप्रदेशेषु अवगाढो न त्वेकस्मिन् द्वयोर्वा इत्यपि शब्दार्थः, विभागेन नैरन्तर्येण सम्बद्धः, पिण्ड इति व्यपदिश्यते, एवं त्रिप्रदेशावगाढत्रि परमाणुस्कन्ध इव तदाधारः - त्रिपरमाणुस्कन्धाधारः, प्रदेशत्रयसमुदायः कथं न पिण्ड इति व्यपदिश्यते ९, सोऽपि पिण्ड इति, उभयत्र विशेषाभावात् ॥ ५७ ॥ अथ " जत्थ जया तप्परूवणया " इति व्याचिख्यासुः, नामादिचतुर्णां पिण्डानां संयोगविभागसम्भवात् पारमार्थिकं पिण्डत्वं क्षेत्रकालयोस्तु तदभावादौपचारिकं पिण्डत्वं प्रतिपादयन्नाह -
अहवा चउण्ह नियमा जोगविभागेण जुज्जए पिंडो । दोसु जहियं तु पिण्डो वणिजइ कीरए वावि ॥५८॥ ' अथवे ' ति-प्रकारान्तरे, लोके हि यत्र योगे सति विभागः कर्तुं शक्यते, तत्र पिण्डव्यपदेशः, क्षेत्रप्रदेशेषु नित्यत्वेन तथास्थितत्वाद्विभागः कर्त्तुमशक्यः, तथा कालेऽपि पूर्वापरसमययोर्विनष्टानुत्पन्नत्वेन योगाभावान्न पारमार्थिकं पिण्डत्वं
For Private & Personal Use Only
क्षेत्र कालपिण्डविमर्शः ।
www.jainelibrary.org