________________
Jain Education
Xxx सममैरन्यतमेन वा कारणेनाहारमाहारयन्नातिक्रामति धर्ममिति ॥ ६६४ ॥ सम्प्रति भोजनकारणप्रतिपादनार्थ सम्बन्ध
गाथामाह
अहवण कुञ्जाहारं० ।। ६६५ ।। अथवा एभिः स्थानैर्वक्ष्यमाणस्वरूपैः संयत आहारं न कुर्यात्, तत्र विचित्रा सूत्रगतिरिति षष्ठं शरीरव्यवच्छेद लक्षण कारणं व्याख्यानयति पच्छा इत्यादि, पश्चात् शिष्य निष्पादना दिसकलकर्त्तव्यतानन्तरं 'पश्चिमे काले ' पाश्चात्ये वयसि ' अध्यक्खमं ' ति संलेखनाकरणेनात्मानं क्षपयित्वा यावज्जीवानशन प्रत्याख्यान ०
द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन् (तः ) प्रत्याख्यानकरणे जिनाज्ञाभङ्गमुपदर्शयति ॥ ६६५ ॥ सम्प्रत्यभोजनकारणानि निर्दिशति -
आयंके उवसग्गे || ६६६ ॥ आतङ्के ज्वरादावुत्पन्ने सति न भुञ्जीत १, तथा ' उपसर्मे राजस्वजनादिकृते देवमनुष्यतियकृते वा सञ्जाते सति तितिक्षार्थं - उपसर्गसहनार्थ २, तथा ब्रह्मचर्यगुप्तिष्विति, अत्र षष्ठ्यर्थे सप्तमी, ततोऽयमर्थः - ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थं ४, तपोहेतोः तपःकरणनिमित्तं ५ Xxxx
X xx x टनं परिहरन् न भुञ्जीत ॥ ६६७ ॥
तत्रहेउ उत्थाई ॥ ६६८ ।। तपोहेतोः- तपःकरणनिमित्तं न भुञ्जीत तपश्चतुर्थादिकं चतुर्थादारभ्य तावद्भवति यावत्पमासप्रमाणं, परतो भगवद्वर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात् षष्ठं पुनः प्रागुक्तेन विधिना चरमकाले शरीरव्यवच्छेदार्थं भवत्यनाद्दारः ॥ ६६८ ॥ तदेवमुक्तं कारणद्वारं, तदुक्तौ चोक्ता प्रासैषणा, तदभिधानाञ्च समाप्ता गवेषणाग्रहणैषणाप्रासैषणाभेदत्रिविधाप्येषणा ।
For Private & Personal Use Only
परि० १० माणिक्य
शेखरीय
दीपिकाया
अन्त्य -
भागः ।
www.jainelibrary.org