SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ धमारत्नीया. वचूर्युपेता परि०९ वीराचार्यकुतटीकाया अन्त्यभागः। भी पिण्डनियुक्तिः। १५४॥ यदशनादिकं चेति व्याख्यात एवेति, अतृप्यमानो-अतिलोस्योऽतृप्ति मन्यमानसाधुरिति गाथार्थः ।। ६४७॥ एवं प्रमाणातिरिक्तस्याहारस्य भोजने साधो दोषा उक्ताः, अथ तस्यैव प्रमाणादियुक्तस्य भोजने गुणानाह हियाहारा मियाहारा० ॥ ६४८ ॥ व्याख्या-हिताहाराः-शरीरोपकारिभोजिना, तथा मिताहारा-द्वात्रिंशकवलमोजिनः, अल्पाहाराः-द्वात्रिंशत्कवलेभ्यः स्तोकतरभोजिनः, चः समुच्चये, ये केचन नरा-मनुष्याः स्युरिति शेषः, न-नैव तान्हिताहारादिभोजिनः वैद्याः-चिकित्सकाः चिकित्सन्ते-प्रतिजापति, यतः अप्पाणंति आत्मनः स्वस्य षष्ठ्यर्थे द्वितीया, आत्मनेति शेषः, ते-हिता| हारादिभोजिनश्चिकित्सका वैद्याः, (अ)हिताचाहारनिषेधनादेव वर्तत इति शेषः इति श्लोकार्थः ॥ ६४८ ॥ अनंतरश्लोके हिताहार | उक्तः, स चाहितपरिहारपूर्वकः स्यादित्यहितहिताहारौ वाच्यौ, तौ च केवलौ संयोगतश्च स्यातां, तत्र संयोगस्तावदाह दहितिल्लसमाओगा०॥ ६४९ ॥ व्याख्या-दधितैलायोः प्रतीतयोः समायोगो-मलिनं सः अहितः-कुष्टविषविकारादिकारी, श्रूयते च समप्रमाणायास्तैलघृतयोमिलितायाः कियता कालेन विषपरिणतिर्भवतीति सर्वत्रयोगः, तथा क्षीरदधिकांजिकानां प्रतीताना| मन्योन्यं च समायोगो, अहित इत्यनुवर्तनाथ, उपलक्षणत्वात् क्षीरशाकसमायोगादिग्रहः, तथा पथ्यं प्लुतघृतगुडाद्यतिरुक्षद्रव्यमीलन पुनः रोगहरं-व्याधिनाशकं भवति, एनमेवार्थ व्यतिरेकेण समर्थयन्नाह न-नैव, चः पूरणे हेतु:-कारणं भवति-जायते, रोगस्य व्याघेरिति गाथार्थः ।। ६४९ ॥ " बत्तीस किरिकवला — गा. ६४२)" इत्यादिना कवलस्याहारस्य पुरुषाद्याश्रित्य प्रमाणादिकमुक्तमथ तस्यैव सपानस्योदरमाश्रित्य प्रमाणादिकमुक्तं, विभागेन प्रमाणमाह अद्धमसणस्स सवंजणस्स० ॥ ६५० ।। व्याख्या-इह सर्वमेवोदरविवरं षड्भिर्भागैर्निरूप्यते, तत्र द्वे भागौ त्रयं अशनस्य ॥१५४॥ For Private Personal Use Only www.jainelibrary.org Jain Education in
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy