________________
Jain Education Inte
नास्ति त्रासदृशी वेदना, उक्तञ्च - " पंथसमा नत्थि जरा दारिदसमो य परिभवो नत्थि । मरणसमं नत्थि भयं छुहासमावेयणानत्थि ।। १ ।। तं नत्थि जं न वाहइ तिलतुसमित्तंपि एत्थ कायस्स । सन्निज्यं सवदुहाई देत आहाररहियस्स ॥ २ ॥ " ततस्तत्प्रशमनार्थं भुञ्जीत, छातो- बुभुक्षितः सन् वैयावृत्यं कर्तुं न शक्नोति, तथा चोक्तम् - " गलइ बलं उच्छाहो अवेइ सिढिलेइ सयलवावारे । नासह सत्तं अरई विवड असणरहियस्स || १ ||" अतो वैयावृत्य करणाय भुञ्जीत । एवमीर्याथशोधनादीन्यपि कारणानि मान्यानि ॥ ६६३-६६४ ॥ अथ यैः कारणैर्न भुङ्क्ते तत् सम्बन्धमाह -
अहव ण कुज्जाहारं, छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ ६६५ ॥
अथवा एभिर्वक्ष्यमाणैः षद्भिः स्थानैः संयत आहारं न कुर्यात्, तत्र विचित्रा सुत्रगतिरिति षष्ठं शरीरव्यवच्छेदलक्षणं व्याख्यानयति, पच्छा इत्यादि पश्चात् शिष्यनिष्पादनादिसकल कर्त्तव्यतानन्तरं पश्चिमे काले, अप्पखमंति-संलेखना - करणेनात्मानं क्षपयित्वा यावज्जीवानशन प्रत्याख्यानकरणस्य क्षमं-योग्यमात्मानं कृत्वा भोजनं परिहरेत्, नान्यथा ॥ ६६५ ॥ अथाभोजन कारणान्याह -
आर्यके उवसग्गे, तितिक्खयों बंभचेरगुत्तीसुं । पाणिदयौ तवहेडें, सरीरवोच्छेयणट्टाएँ ॥ ६६६ ॥
आतङ्के ज्वरादौ १, उपसर्गे - राजादिक्रतेति भिक्षार्थमुपसर्गसहनार्थं २, ब्रह्मचर्यं गुप्तिब्बिति ३, अत्र षष्ठ्यर्थे सप्तमी, ततो ब्रह्मचर्यगुतीनां परिपालनाय ३, प्राणिदयार्थं ४, तपोहेतोः ५, तथा चरमकाले शरीर व्यवच्छेदार्थम् ६ ॥ ६६६ ॥
For Private & Personal Use Only
अभाजने कारणानि ।
www.jainelibrary.org