________________
पिहित. द्वारम्।
| कुतुपादिषु वा भाजनेषु निक्षिप्ता मोदकादयः < परम्परम् >॥५५७॥ अथ पिहितद्वारमाहसञ्चित्ते अञ्चित्ते मीसग पिहियमि होइ चउभंगो। आइतिगे पडिसेहो चरिमे भंगमि भयणा उ॥
सचित्ते-सचित्तेन अचित्तेन मिश्रेण वा पिहितद्वारे चतुर्भङ्गी भवति, जातावेकवचनमिति, तिस्रश्चतुर्भङ्गयो भवन्ति पूर्ववत् , तथा गाथापर्यन्ततुशब्दात् प्रथमचतुर्भङ्गयां सर्वेष्वपि भङ्गेषु न कल्पते, द्वितीयतृतीयचतुर्भङ्गिकायास्तु प्रत्येकमादिमेषु त्रिषु भङ्गेषु न कल्पते, चरमे तु मङ्गे भजना, सा चाग्रे वक्ष्यते ॥ ५५८ ॥ अथ चतुर्भङ्गीत्रयावान्तरभेदानाह
जह चेव उ निक्खित्ते संजोगा चेव होंति भंगा य । एमेव य पिहियमिवि नाणत्तमिणं तइयभंगे ____यथा निक्षिप्ते सचित्ताचित्तमिश्राणां संयोगाः प्रागुक्ताः, यथा च चत्वारिशतानि द्वात्रिंशदधिकानि भङ्गा उक्तास्तथाऽ. त्रापि द्रष्टव्याः, सर्व प्रागिव, नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येक तृतीयभङ्गे अनन्तरपरम्परमार्गणाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वं ज्ञेयं, तत्र सचित्तपृथ्वीकायेनावष्टब्धं मण्डकादि सचित्तपृथ्वीकायानन्तरपिहितं, सचित्तपृथ्वीकायगर्भपिठरादिपिहितं परम्परपिहितमिति, तथा हिमादिनाऽवष्टब्धं मण्डकादि सचित्ताप्कायानन्तरपिहितं हिमादिगर्भपिठरादिना <पिहितं परं> परं चेति ॥ ५५९ ॥ अथ सचित्ततेजस्कायादिपिहितमनन्तरं परम्परं चाह गाथाद्वयेनअंगारधूवियाई अणंतरो संतरो सरावाई। तत्थेव अइर वाऊ परंपरं बत्थिणा पिहिए ॥ ५६०॥ अइरं फलाइपिहितं वर्णमि इयरं तु छब्बपिठराई । कच्छवसंचाराई अणंतराणंतरे छट्टे ॥ ५६१॥
en Education inte
For Private
Personal Use Only