________________
Jain Education In
चास्माकमविनयः स्यादिति बलात् क्रमौ क्षालितौ, भोजनादनु कौतुकमिलितश्राद्धान्यजनयुतो निजाश्रयं प्रति चचाल, नद्युत्तारे पादलेपाभावे मञ्जं लग्नो, जाता जनेऽपभ्राजना, तदा च तस्य प्रतिबोधाय समितसूरयस्तत्रागताः, तैर्नदीं प्रत्युक्तं - हे कृष्णे वयं परं पारं गन्तुमिच्छामस्ततो द्वेऽपि नदीकूले एकत्र मिलिते, जातो विस्मयः लोकस्य परिवारं कुलपतेच, गृहीता दीक्षा सतन्त्रेण कुलपतिना सा ब्रह्मशाखा बभूव । सूत्रं सुगमम् ॥ ५०३ - ५०५ ॥ अथ “मूल” त्ति व्याख्यानयतिअधिई पुच्छा आसन्न विवाहे भिन्नकन्नसाहणया । आयमणपियण ओसह अक्खय जज्जीवअहिगरणं ॥ जंघा परिजिय सड्डी अद्धिइ आणिजए मम सवत्ती । जोगो जोशुग्धाडण पडिसेह पओस उड्डाहो ॥ ५०७
( दृ० ) क्वापि धनश्रेष्ठिनो घनप्रिया, पुत्री सुन्दरी मिन्नयोनिका मात्रा ज्ञायते न पित्रा परिणयनाय कस्यापि पुत्रस्य पित्रा दत्ता, आसन्ने विवाहदिने मातुश्चिन्ता जाता 'हा ! कथमेषा भर्त्रा भिन्नयोनिका ज्ञाता करिष्यति १, अत्रान्तरे समागतः संयतो भिक्षार्थं, तेन सा पृष्टा, तथा चिन्तोक्ता, साधुनोक्तं- मा भैषीरहमभिन्नयोनिकां करिष्ये, तत आचमनौषधं पानौषधं च तस्मै दत्तं जाता अभिन्नयोनिका ।
तथा - ( दृ० ) चन्द्राननापुर्यां धनदत्तसार्थवाहो, मार्या चन्द्रमुखा, तयोरन्योऽन्यं कलहे जाते, धनदत्तेन कस्यापि पुत्री वृत्ता, ज्ञाते पूर्वपत्न्या अधृतिः, जङ्घापरिजितसाधुना भिक्षार्थमागतेन पृष्टा कारणं, कथय मां, सपत्नी व्यतिकरे ज्ञाते साधुना समर्पितमौषधम्, भणिता च सा कथमपि तस्याः ( भक्तस्य ) पानस्य मध्ये देयं येन सा भिन्नयोनिका भवति,
For Private & Personal Use Only
मूलकर्मणि
दृष्टान्तः ।
www.jainelibrary.org