________________
4
विद्यापिण्ड उदाहरणं दोषाश्च ।
परिपिडियमुल्लावो अइपंतो भिक्खुवासओ दावे । जइ इच्छह अणुजाणह घयगुलवस्थाणि दावेमि ॥ गंतुं विज्जामंतण किं देमि? घयं गुलंच वत्थाई। दिन्ने पडिसाहरणं केण हियं केण मुट्ठोमि? ॥४९६॥
(६० ) गन्धसमृद्धनगरे धनदेवो भिक्षुपासकः, स च साधुभ्यो न किमपि ददाति, अन्यदा तरुणश्रमणानामन्योऽन्योल्लापे केनापि प्रतिपन्नमहं धनदेवाद् घृतगुडादिकमादास्ये, शेष साधुभिः साक्षेपमनुज्ञातो धनदेवगृहं गतः साधुः, धनदेवो विद्ययाऽभिमन्त्रितो बुते किं प्रयच्छामि ?, साधुसार्थे घना यतयः सन्ति, तैरुक्तं घृतगुडवस्त्रादि, ततो दापितं तेन संयतेभ्यः प्रचुरं घृतादिकं, ततः संहृता विद्या, जातस्वभावस्थो धनदेवस्ततो घृतादिस्तोकं दृष्ट्वा विलपितुं प्रवृत्तः, परिजनेनोक्तं युष्माभिरेव दापित संयतेभ्यस्ततो मौनमालम्ब्य स्थितः। गाथार्थः सुगम एव ॥ ४९५-४९६ ॥ अत्र दोषानाहपडिविज थंभणाई सो वा अन्नोव से करिजाहि। पावाजीवीमाई कम्मणगारी य गहणाई॥४९७॥
यो विद्ययाऽभिमन्त्रितः सोऽन्यो वा तत् पक्षपाती प्रद्विष्टः सन् प्रतिविद्यया स्तम्भनादि कुर्यात् , तथा पापाजीविनो मायिनः शठा इति लोके गर्दा, तथा कार्मणकारिण इमे इति राजकुले ग्रहणादि भवेदिति ॥ ४९७ ॥ मन्त्रे पादलितो. दाहरणमाहजह जह पएसिणी जाणुगंमि पालित्तओ भमाडेइ। तह तह सीसे वियणा पणस्सइ मुरुंडरायस्स ॥
(६० ) प्रतिष्ठानपुरे मुरण्डो राजा, पादलिताः सूरयः, अन्यदा राज्ञः शिरोवेदना जाता, न केनाप्युपशमयितुं
Jain Education Inter
For Private & Personel Use Only
Tww.jainelibrary.org