SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Jain Educatio! कथनं मम ईदृशी जनन्यभूत् । अत्र दोषानाह तथा स्त्रिया मातृत्वप्रकटनार्थं साधुमुखे स्तनप्रक्षेपः क्रियते, सम्बन्धः परस्परं स्नेहरूपो जायते, तथा मृतपुत्रस्य स्थानेऽयं पुत्र इति विधवा स्नुपादि दानं करोति, एवं पश्चात्सम्बन्धि संस्तवोदाहरमपि खधियाऽभ्युह्यम् ॥ ४८७ ॥ तत्र दोषानाह - पच्छासंथवदोसा सासू विहवादिधूयदाणं च । भज्जा ममेरिसिश्चिय सज्जो घाउ वयभंगो वा ॥ ४८८ ॥ पश्चात्सम्बन्धिसंस्तवे इमे दोषाः श्वश्रूशी ममाभूदित्युक्ते सा विधवा सुताया दानं करोति, तथा भार्या ममेदृशी अभवदित्युक्ते यदीर्ष्यालुस्तद्धर्त्ता समीपे स्यात् तदा साधोघतं कुर्यात्, अथ भद्रकस्तर्हि स्त्री - भार्याऽहमनेन कल्पितेत्यनुरागं कुर्वाणा चित्राक्षोभमापादयेत्ततो व्रतभङ्गः ॥ ४८८ || प्रत्येकमभिधाय साधारणदोषानाह मायावी चडुयारी अम्हं ओहावणं कुणइ एसो । निच्छुभणाई पंतो करिज्ज भद्देसु पडिबंधो ॥४८९॥ अधृतिदृष्टिप्रश्नवादि कुर्वन् मायावी चटुकारी तथाऽस्माकं स्वस्य कार्यटिकप्रायस्य जनन्यादि कल्पनेनापभ्राजनं विधत्ते, एवं विचिन्त्य प्रान्तः स्वगृहनिष्काशनादि करोति, अथ भद्रकस्तर्हि प्रतिबन्धः स्नेहरूपस्तत आधा कम्र्मादिदोषाः ॥ ४८९ ॥ अथ वचनसंस्तवस्य पूर्वरूपस्य लक्षणमाह गुणसंथवेण पुर्व्विं संतासंतेण जो थुणिज्जाहि । दायारमादिनंमी सो पुविंसंथवो हवइ ॥ ४९० ॥ गुणसंस्तवेन-प्रशंसावचनरूपेण सत्येनासत्येन वा दातव्ये भक्तादावदत्ते पूर्व दातारं यः स्तूयात् स पूर्वसंस्तवः ||४९० || For Private & Personal Use Only संबधि संस्तवे पूर्वपचा द्भाविनो दोषाः ॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy