________________
वनीपर्क दोषाः।
| केलासभवणा एए आगया गुज्झगा महिं । चरंति जक्खरूवणं पूयाऽपूया हियाऽहिया ॥ ४५२ ॥
अपि नाम गवादीनां तृणादिकमाहारः सुलभो भवेत् , पुनरेषां छिच्छिकारहतानां नैव सुलभः, तस्मादेतेभ्यो दीयतामिति, अपि च नैते श्वान: किन्तु गुह्यका-देवविशेषाः कैलासभवनादागत्य पृथिवीं यक्षरूपेण श्वाकृत्या चरन्ति, तत एतेषां पूजाऽपूजापि च यथासङ्खथं हिताऽहिता चेति ॥ ४५१-४५२ ।। अथ ब्राह्मणादि वनीपकत्वे दोषानाह- . एएण मज्झ भावो दिट्ठो लोए पणामहेजमि । एक्केके पुवुत्ता भद्दगपंताइणो दोसा ॥४५३॥
एतेन साधुना मदीयो भावो-भक्तत्वलक्षणो दृष्टो-ऽवगतो लोके-ब्राह्मणादौ कथंभूत इत्याह-प्रणामहार्य-प्रणामः-नमस्करणमपलक्षणत्वादानादि तेन हायें-आवर्जनीये, तत एकैकस्मिन् ब्राह्मणादिवनीपकत्वे पूर्वोक्ता भद्रकान्तादयो दोषा भावनीयाः ॥ ४५३ ।। साणग्रहणं काकादीनामुपलक्षणं तदेवाहएमेव कागमाई साणग्गहणेण सूइया होति । जो वा जमि पसत्तो वणइ तहिं पुटुंऽपुट्ठो वा ॥४५४ ___ एवमेव शुनकग्रहणेन काकादयः सूचिता भवन्ति, यो वा यत्र काकादौ प्रसक्तस्तत्र काकादिस्वरूपं पृष्टोऽपृष्टो वा वनति-प्रशंसाद्वारेणात्मानं भक्तं दर्शयति ॥ ४५४ ॥ दाणं न होई अफलं पत्तमपत्तेसु सन्निजुजंतं । इय विभणिए वि दोसा पसंसओ किं पुण अपत्ते?
पात्रेष्वपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमिति भणिते दोषः, किं पुनरपात्राण्येव प्रशंसतः, तत्र सुतरां दोष
Jain Eduell an
For Private & Personel Use Only
www.jainelibrary.org