________________
दती द्विधा-स्वग्रामे परग्रामे च, सा चैकैका द्विधा-प्रकटा छन्ना च, तत्र सा तव माता स वा तव पिता एवं भणति- प्रतीमेदाः। एवं सन्देशं कथयति, सा प्रकटा, या तु तं सन्देशं छन्नवचनेन कथयति सा छन्ना ॥ ४२८॥ एतदेव व्यक्तमाहएकेक्कावि य दविहा पागड छन्नाय छन्न दुविहाउ। लोगुत्तरि तत्थेगाबीया पुण उभयपक्खेऽवि॥४२९
एकैका पुनर्विधा-प्रकटा छन्ना च, छन्ना पुनरपि द्विधा-एका लोकोत्तरे, सङ्घाटक साधोरपि, द्वितीयोभयपक्षेऽपि ॥४२९॥ अथोमयथां प्रकटां दुतीमाह| भिक्खाई वच्चंते अप्पाहणि नेइ खंतियाईणं। सा ते अमुगं माया सो व पिया ते इमं भणइ ॥४३०॥
मिक्षादौ व्रजन्-स्वग्रामे परग्रामे वा जनन्यादीनां अप्पाहणि-सन्देशं कथयति, सा ते माता स च ते पिता इदं भणति ॥ ४३०॥ अथ स्वग्रामे लोकोत्तरच्छन्नदूतीमाहदइत्तं खु गरहियं अप्पाहिउ बिइयपच्चया भणति । अविकोविया सुया तेजा आह इमं भणसुखंति॥
कोऽपि साधुः कस्याश्चित् पुत्रिकया सन्दिष्टो तीत्वं खलु गर्हितमिति चिन्तयित्वा द्वितीयप्रत्ययात्, मा मां सङ्घाटकसाधुर्दतीदोषदुष्टं ज्ञासीदिति भङ्गयन्तरेण भणति, यथा अविकोविदा जिनमतापण्डिता सा तव सुता, या आह-इदं भण | मदीयां जननीमिति, सापि द्वितीयसङ्घाटकसाधुचित्ताऽऽवर्जनार्थ भणति-वारयिष्यामि सुतां येनैवं पुनर्न सन्दिशति ॥४३१॥ अथ स्वग्रामे उभयपक्षच्छन्नतीमाह
Jain Education T
ina
For Private & Personal Use Only
www.jainelibrary.org