SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावचूर्युपेता श्री पिण्डनिर्युक्तिः । ॥ ७९ ॥ Jain Education Inte दत्ताय दत्त ( दापित) वान्, हृष्टो दत्तः, संध्यायां च सूरिणोक्तं- आलोचय धात्रीपिण्डं चिकित्सापिण्डं च स प्राह- युष्माभिः सहा विहृतः, कथं मे दोषसङ्ग १ इति, चप्पुटिकया बालक्रीडनेन क्रीडनधात्रीपिण्डो, बालस्य पूतनाव्यन्तरीतो मोचितत्वाचिकित्सापिण्डरित्युक्ते सूरिभिः स चिन्तयति, अहो स्वयं सदैवमाहारं गृह्णाति, मम चैकदिनेऽप्यालोचनां दत्ते, ततः प्रद्वेषतो वसतेर्बहिः स्थितः, ततः सूरिगुणाऽऽवर्जितया देवतया तस्य शिक्षार्थं वसतावन्धकारं सवातं च वर्ष विकुर्वितं ततः स भयभीतः सूरीनाह - कुत्राहं व्रजामि, तैश्चातिनिर्मलैरभाणि वत्स ! एहि वसतौ प्रविशेति, दत्त आह-भगवन्न पश्यामि अन्धकारे द्वारमिति, ततोऽनुकम्पया श्लेष्मणा सूरिभिर्निजाङ्गुलिरुद्धृत्य ऊर्डीकृता, सा च दीपशिखेव ज्वलितं प्रवृत्ता, ततः दुरात्माऽचिन्तयत् - अहो एतस्य परिगृहे वह्निरप्यस्ति, एवं च चिन्तयन् देवतया ताडितः, सूरयः क्षामिता दत्तेन । सुगमं सूत्रम्, नवरं सादिव्वं देवताप्रातिहार्यम् ॥ ४२७ ॥ एतदेव गाथाद्वयेन भाष्यकृदाह ओमे संगमथेरा गच्छ विसज्जंति जंघबलहीणा । नवभाग खेत्त वसही दत्तस्स य आगमो ताहे ॥ भा० ३१ उवसयबाहिं ठाणं अन्नाउंछेण संकिलेसो य । पूयणचेडे मा रुय पडिलाभण वियडणा सम्मं ॥ भा०३२ एतच्च गाथाद्वयं व्याख्यातः प्राय एव, केवलं 'पूयणचेडे' ति, पूतना- दुष्टव्यन्तरी तथा गृहीते चेटे - बाले मा रोदीरिति विकटना-आलोचनम् ।। ३१-३२ ।। अथ दूतीद्वारमाह सग्गाम परग्गामे दुविहा दूई उ होइ नायव्वा । सा वा सो वा भणई भणइ व तं छन्नवयणेणं ॥ ४२८ ॥ For Private & Personal Use Only अङ्कधात्र्यां दृष्टान्तः । ॥ ७९ ॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy