________________
क्षमा
रत्नीयाबचूर्युपेता
श्री
पिण्ड
निर्युक्तिः ।
॥ ७६ ॥
Jain Education Inter
क्षीरे-स्तन्यपाने मज्जने मण्डने क्रीडापने अङ्के उत्सङ्गस (पु) त्रधारणे १ धात्रीशब्दः प्रत्येकं सम्बध्यते, एवं पश्चधा धात्री, एकैका पुनर्द्विधा स्यात् करणे कारणे च यथा क्वापि स्वयं स्वन्यं पाययति, काचिच्चान्यया पाययति ॥ ४१० ॥ अथ धात्रीशब्दनिष्पत्तिमाह
धारेइ धीयए वा धयंति वा तमिति तेण धाई उ । जहविहवं आसि पुरा खीराई पंच धाईओ ||४११॥
धारयति बालकं धीयते भाटकदानेन धि ( धी) यते पोष्यते वा यद्वा धयन्ति - पिबन्ति बालकास्तामिति धात्री, ताश्च धान्यो यथा विभवं परा - पूर्वं क्षीरादिकाः पञ्च आसन् ॥ ४११ ॥ अथ साधोः स्तन्यदापनधात्रीत्वं वक्तिखीराहारो रोवइ मज्झ कयासाय देहि णं पिज्जे । पच्छा व मज्झ दाही अलं व भुज्जो व एहामि ॥ ४९२ ॥
कोsपि भिक्षागतो बालकं रुदन्तं दृष्ट्रा जननीमाह-अयं बालोऽद्यापि क्षीराहारो रोदिति तस्मान्मां कृताशाय शीघ्रं भिक्षां देहि पश्चादेनं बालकं स्तन्यं पायय, यद्वा मां पश्चाद्देहि, यद्वा अलं-पूर्ण मे सम्प्रति भिक्षया भूयोऽपि भिक्षार्थमहमेष्यामि ॥ ४१२ ।। तथा
मइमं अरोगि दीहाउओ य होइ अविमाणिओ बालो । दुल्लभयं खु सुयमुहं पिज्जाहि अहं व से देमि ४१३
बालोऽविमानितो ऽनपमानितो मतिमानरोगी दीर्घायुश्च स्यात्, तथा 'दुर्लभं खलु लोके सुतमुखं', तस्मात् सर्वाण्यपि कर्माणि मुक्त्वा त्वमेनं बालकं स्तन्यं पायय, यदि त्वं न पाययसि तर्हि अहमस्मै क्षीरं ददामि ॥ ४१३ ॥ अत्र दोषमाह
For Private & Personal Use Only
धात्रीशब्द
व्युत्पत्तिः,
भेदाः ।
॥ ७६ ॥
www.jainelibrary.org