________________
११ अभ्या| हृतदोषा तद्भेदाश्च ।
रात्रं तत्रानीतं किल प्रच्छन्नं भवति, एवं साधूनां यदि विदितमभ्याहृतं तनिशीथाम्याहृतं, तद्विपरीतं नोनिशीथाम्याहृतं, साधुज्ञातमेवेत्यर्थः, अमि-सम्मुखं साधूनामाहृतमानीतमित्यन्वर्थः, तत्र निशीथाम्याहृतं स्थाप्य, अग्रे वक्ष्यमाणत्वाद, नोनिशीथं तु वक्ष्यामि ॥ ३२९ ॥ सग्गाम परग्गामे सदेस परदेसमेव बोद्धव्वं । दुविहं तु परग्गामे जलथल नावोडु जंघाए ॥ ३३०॥
नोनिशीथाभ्याहृतं द्विधा-स्वग्रामे परग्रामे, पुनः परग्रामाभ्याहृतं द्विधा-स्वदेशे परदेशे वा, एतद् द्विविधमपि प्रत्येक द्विधा-जलथलत्ति, 'सूचनात सूत्र 'मिति, जलपथेन स्थलपथेन च, तत्र जलपथेनाभ्याहृतं द्विधा-नावा उडपेन च, उपलक्षणत्वात् स्तोकजले जङ्घाभ्यामपि, नौः-तरिका, उडुपः-तरणकाष्ठं, स्थलपथेनापि द्विधा-जङ्घाभ्यां पद्भयो च, उपलक्षणत्वाद् गन्न्यादिपरिग्रहः ॥ ३३० ।। अथामूनेव जलस्थलाभ्याहृतभेदान् सदोषानाहजंघा बाह तरीइव जले थले खंध आरखुरनिबद्धा। संजमआयविराहण तहियं पुण संजमेकाया ३३१॥ अस्थाहगाहपंकामगरोहारा जले अवाया उ। कंटाहितेणसावय थलंमि एए भवे दोसा ॥ ३३२ ॥
जलमार्गे जवाभ्यां बाहुभ्यां तरिकयाऽभ्याहृतं स्यात, स्थलमार्गे तु स्कन्धेन, तथा आरखुरनिवद्धा-गन्त्रीतया खुरनिबद्धा रासमवलीवदयस्तैरम्याहृतम, अत्र संयमात्मविराधनारूपा दोषाः, तत्र पुनः संयमविराधनाय काया-अप्कायादय, इति मार्गद्वयो(ब्ये)ऽपि, अथात्मविराधनामाह-जलमार्गे अस्तापनिमञ्जनसम्भवात, तथा ग्राहेभ्योऽपि पङ्कतो मकरेभ्यो
Jnin Education in
For Private & Personal Use Only
T
www.jainelibrary.org