SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ क्षमारत्नीयावचूर्युपेता श्री पिण्ड निर्युक्तिः । ॥ ६१ ॥ Jain Education Inter यिष्यामि, कोऽपि पुनरेवम् एतावद्दिनानामुपरि तथैतत् सदृशमपरं वस्त्रादि दास्यामि, तत्र प्रथमे भेदे मलिनिते पाटिते खोसितेजीर्णप्राये यद्वा चौरादिभिर्हते, यद्वा नष्टे मार्गपतिते कलहादयो दोषाः, द्वितीये च प्रकारे अन्यद्वस्त्रादिकं याचमाने सुन्दरेऽपि अन्यस्मिन् दत्ते कोऽपि दुष्कररुचिः स्यात्, ततः कलहादयश्च भवन्ति ।। ३२१ ॥ अथात्रैवापवादमाह - उच्चत्ताए दाणं दुल्लभ खग्गूड अलस पामिच्चे । तंपि य गुरुस्स पासे ठवेइ सो देइ मा कलहो ॥ इह दुर्लभे वस्त्रादौ सीदतः साधोरुच्चतया दानं कर्त्तव्यम्, न प्रामित्यकरणेन, तथा यः खग्गूडः- कुटिलो वैयावृत्त्यादौ, योऽपि चालसस्तौ वस्त्रादिदानेन प्रलोभ्य वैयावृत्यं कार्येते, ततस्तद्विषयं प्रामित्यं भवति, तदपि दीयमानं वस्त्रादिकं दायको गुरोः पार्श्वे स्थापयेत्, न स्वयं दद्यात्, ततः स गुरुर्ददाति, मा भूदन्यथा कलह इति ॥ ३२२ ॥ अथ परावर्त्तितद्वारमाहपरियट्टियंपि दुविहं लोइय लोगुत्तरं समासेणं । एक्केकंपि अ दुविहं तदवे अन्नदवे य ॥ ३२३ ॥ परिवर्त्तितमपि द्विविधं समासेन लौकिकं लोकोत्तरं च, एकैकमपि पुनर्द्विविधं तद्रव्ये अन्यद्रव्ये च समानद्रव्यपरावर्त्तस्तद्रव्ये, यथा कुथितं घृतमन्यघृतेन परावर्च्यन्ते, विजातीय द्रव्यपरावर्त्तनमन्यद्रव्ये, एतेनान्वर्थोऽपि कथित इति ।। ३२३ ॥ अथ लौकिकस्योदाहरणं गाथात्रयेणाह - अवरोप्परसज्झिलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्ठा परियहण संखडे बोही ॥ . अणुकंप भगिणिगे दरिद्द परियहणा य कूरस्स । पुच्छा कोद्दवकूरे मच्छर णाइक्ख पंतावे ॥ ३२५ ॥ For Private & Personal Use Only १० परा वर्त्तित दोषः । ॥ ६१ ॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy