________________
Jain Education Inter
कथितो यावद्दासत्वं जातमिति, दुःखाच्च रोदितुं लग्ना, ततः साधुरूचेऽहमचिराचां मोचयिष्यामि, मोचनोपायं चिन्तयन् शिवदेवगृहे जगाम, तद्भार्या शिवा भिक्षादानार्थं जलेन करप्रक्षालनं कर्त्तुं लग्ना, तां च साधुर्निवारयामास, यथैवमस्माकं न करपते, समीपस्थेन शिवदेवेन साधुः पृष्टः - कोऽत्र दोषः ?, साधुना चाकायविराधनादिदोषाः प्रोक्ताः पुनः श्रेष्ठिनोचे - क ते वसतिः १, साधुनोचे - नास्ति मे प्रतिश्रयः श्रेष्ठिना निजगृहैकदेशे वसतिर्दत्ता, धर्म्मश्रवणात् सम्यक्त्वादि प्रतिपन्नं, अन्यदा साधुना श्रेष्ठ्य वासुदेवस्य दीक्षाग्राहकानिवारणाभिग्रहः प्रोचे, शिवदेवेनामिग्रहो वासुदेवस्य जगृहे, तदा च शिवदेवस्य ज्येष्ठपुत्रः सम्मतिश्च दीक्षां ग्रहीतुमुपतस्थे, श्रेष्ठ्यनुज्ञायां द्वावपि दीक्षां प्रतिपन्नाविति, सूत्रं सुगमं, केवलं श्रुताभिगमज्ञातविधिरिति, अत्र अपर आह- परम्परया प्रव्रज्याकारणत्वात् साधुना विशेषेण प्रामित्यं ग्राह्यमित्याह -कइवयाओ, एवंविधा गीतार्थाः कतिपया एव स्युर्न भूयांस इति प्रामित्यदोष एव ।। ३१७-३१९ ।। अथ वस्त्रादिविषये दोषानाह - एए चैव य दोसा सविसेसयरा उ वत्थपाएसुं । लोइयपामिच्चेसुं लोगुत्तरिया इमे अन्ने ॥ ३२० ॥
लौकिकेषु प्रामित्येषु पात्रेषु एत एव सविशेषतरा बन्धनादिका दोषा ज्ञातव्याः, लोकोत्तर प्रामित्यविषयाः पुनरिमेऽन्ये वक्ष्यमाणाः || ३२० ॥ तानेवाहमइलिय फालिय खोसिय हियनट्टे वावि अन्न मग्गंते । अवि सुंदरेवि दिण्णे दुक्कर रोई कलहमाई ॥ इह द्विधा लोकोत्तरं प्रामित्यं, तत्र कोऽपि कस्यापि सत्कमेव वस्त्रादि गृह्णाति, यथा कियद्दिनानि परिभुज्य पुनस्ते समर्प -
११
For Private & Personal Use Only
प्रामित्ये वस्त्रादिविषये
दोषाः ।
library.org