________________
प्रादुष्करण सम्भवः।
सागुणेसणकहणं आउट्टा तमि तिप्पड़ तहेव । कुक्क्रडि चरंति एए वयं तु चिन्नबया बीओ ॥
(इ. १९) कापि श्राविका साधु लोचविरलोत्तमाङ्गं, अत्रोत्तमाङ्गशब्देनोत्तमाङ्गस्थाः केशा ज्ञेयाः, तपःकृशं मलकलुषितशरीरं युगमात्रान्तरन्यस्तदृष्टिमत्वरितमचपलं स्वगृहमागच्छन्तं दृष्ट्वा संवेगमागता, विपुलं भक्तपानं गृहीत्वा निर्गता गृहमध्यात्, सोऽपि साधुर्नीचद्वारेऽस्मिन् गृहे न शुद्ध्यति ममैषणेति कृत्वा निर्जगाम, निर्गते च तस्मिन् श्राविकागृहीतेन भक्तपानेन सञ्जातविप्रियेवावतिष्ठते, अत्रान्तरे चरणकरणालसेऽम्यस्मिन् साधौ तत्रागते तस्मै सा भिक्षा दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टः-यत्पूर्वमागतेन साधुना न गृहीता त्वया गृहीता, तत्र किं कारणमिति , ततः स ऐहलौकिक भिक्षालाममात्रं पारलौकिकं धर्म यथाक्रममल्पगुणं बहुगुणं चिन्तयित्वा इमं लोकं परित्यज्य कथयति, यथा-नीचद्वारे गृहे साधव एषणा(समिति)समिता भिक्षा नेच्छन्ति, तत्रान्धकारभावात, यदप्युक्तं-त्वया किं कारणं गृहीतेति , तत्रा लिङ्गमात्रोपजीवी, न साधुगुणयुक्त इत्यर्थः, साधुगुणेषणयोः कथनं साधुना कृतं, ततस्तस्य परगुणप्रकाशकोऽयं योग्य इति गुणेनाकृष्टा, यद्वा आउट्टा-अतिशयेन भक्तिं कृतवती श्राविका, 'तिप्पई' इति-भक्तादिना तर्पयति, प्रीणयति साधु, यद्वा भक्तपानं तेपते क्षरति स्मेति भावः, अथ गते तस्मिन्नन्यः कोऽपि निर्धर्मा साधुरागतः, सोऽपि भिक्षां दत्वा पृष्टः, तेन पापात्मना प्रोक्तमेते कुक्कुट्या-मायया चरन्ति, तेन त्वच्चित्तावर्जनार्थमेवं कृतं, न कोऽपि तत्र दोषः, ईदृशानि मायारूपाणि व्रतानि अस्माभिः पूर्व चीर्णानि, अथ वयं मायां न कुर्मः, ततस्तया दुरात्मायमिति विसर्जितः ।। २९२-२९७ ॥ इत्थं भूता च श्राविका भक्त्या प्रादुष्करणमपि कुर्यादिति प्रादुष्करणसम्भवः । अथ प्रादुष्करणस्वरूपं गाथाद्वयेनाह
भिक्षां नेच्छा बहुगुणं चिन्तयित्वा तत्र किं कारणमिति मक्षा दत्ता, गृहीत
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org