SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ४ मिश्रजातदोषमेदाः। र्थोऽपि सूचित इति, एतच्च सहस्रान्तरमपि न कल्पते, यथा येन कृतं तेनान्यस्मै दत्तं तेनाप्यन्यस्मायिति सहस्रान्तरगतमुच्यते, यस्मिन् भाजने तन्मियं गृहीतं तस्मिन् मिश्रपरित्यागानन्तरं कल्पे त्रिगुणे कृतेऽन्यच्छुद्धं भक्तादि गृहीतुं कल्पते नान्यथा ॥ २७१ ॥ एनामेव गाथां भाष्यकृद् व्याख्यानयति, पूर्व मिश्रसम्भवमाहदुग्गासेतं समइच्छिउं व अद्धाणसीसए जत्ता । सड्डी बहुभिक्खयरे मीसजायं करे कोई ॥भा. २४॥ 'दुःखेन ग्रासो यत्र तद् दुर्गासं-दुर्मिक्षं तत्र भिक्षाचरसत्त्वानुकम्पया, यद्वा तद् दुर्भिक्षं समतिक्रान्तः कश्चिद् बुभुक्षाकष्ट महत्परिज्ञाय यदि वा अध्वशीर्षके-कान्तारादिनिर्गमरूपे खिन्नभिक्षाचरानुकम्पया, यद्वा यात्रादिरूपे उत्सवविशेषे दानश्रद्धया कोऽपि श्रद्धी-श्रद्धावान् बहून् भिक्षाचरानुपलभ्य मिश्रजातं करोति ॥ २४ ॥ अथ यावदर्थिकस्य परिज्ञानोपायमाहजावंतवा सिद्धं नेयं तं देह कामियं जइणं । बहुसु व अपहुप्पंते भणाइ अन्नपि रंधेह ॥ २७२॥ कापि साधवे ददती कयापि निषिध्यते-नेदं दीयमानं यावदर्थः सिद्धं किन्तु विवक्षितमिति तस्मात्तद्देहि यतिभ्यः कामितयावद् गृहन्ति तावदित्यर्थः, यद्वा प्रचुरेषु भिक्षाचरेषु समागच्छत्सु अग्रेतनप्रमाणे राध्यमाने अप्रभवति-अपूर्यमाणे गृहनायको भणति, यदा नैतावता भवति तदाऽन्यदपि प्रक्षिप्य राख्नुहि, एवं श्रुते यावदर्थिकं ज्ञात्वा परिहत्तव्यम् ॥ २७२ ॥ अथ पाखण्डिसाधुमिश्रे आहअत्तट्ठा रंधते पासंडीणंपि बिइयओ भणइ । निग्गंथट्टा तइओ अचट्ठाएऽवि रंधते ॥ २७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy