________________
क्षमारत्नीयावर्युपेता
|पूतौ भक्त पानपूतिः सूक्ष्मपूतिश्च ।
श्री
पिण्डनियुक्ति
॥५०॥
आधाकावयवमिश्रितत्वात् ।। २५४ ॥ " डाये" त्याद्युत्तराद्धं व्याख्यानयतिअत्तट्ठिय आयाणे डायं लोणं च कम्म हिंगुं वा । तं भत्तपाणपूई फोडण अन्नं व जं छुहइ ॥२५५॥ संकामेउं कम्मं सिद्धं जं किंचि तत्थ छुढं वा । अंगारभूमि थाली वेसण हेट्ठा मुणीहि धूमो ॥२५६ ॥
आत्मार्थ आदाने-तक्रादिपाकारम्भकरणरूपे सति यदाधाकम्मिकं डायं-शाकं, यद्वा लवणं यद्वा हिङ्गु अन्यद्वा स्फोटनं राजिकाजीरिकादि, 'जं छुभइ 'ति, तन्मध्ये क्षेपयति, तत् तक्रादिकं तेन सम्मिश्रं भक्तपानपूतिः, एतेन 'डाए लोणे हिंगू फोडण'मिति व्याख्यातम् , तथा यस्यां स्थाल्यां राद्धमाधाकर्म तद् अन्यत्र सङ्क्रमय्य तस्यामेव स्थाल्यामकृत कल्पप्रयायां यद् आत्मार्थ सिद्धं किञ्चित् , यद्वा तत्र प्रक्षिप्तं तदपि भक्तपानपूतिः, अनेन सङ्कामणेति व्याख्यातं, तथा अङ्गारेषु-निर्धूमाग्निरूपेषु वेसने उपलक्षणत्वाद् हिगुजीरकादौ प्रक्षिप्ते सति यो धूम उच्छलति स वेसनाङ्गारे धूम इति ज्ञेयम् , पूर्वगाथायां धूम इत्यस्य पदस्यायमर्थो भावनीय इत्यर्थः, अनेन च धूमेन या व्याप्ता स्थाली तक्रादिकं च तदपि पूतिः, अवार्यत्वाद्वसनादिपदानां व्यस्तन्यासः ॥ २५५-२५६ ॥ अथ सूक्ष्मपूतिमाहइंधणधूमेगंधेअवयवमाईहिं सुहुमपूई उ । सुंदरमेयं पूई चोयग भणिए गुरू भणइ ॥ २५७ ॥
इन्धनधूमगन्धाद्यवयवैर्मियं भक्तादिसूक्ष्मपूतिरादिशब्दाद्वाष्पादिपरिग्रहः, इन्धनाद्याधाकम्मिकं ज्ञेयम् , एषा च सूक्ष्मपूति गमेति निषिध्यते ॥ २५७ ॥ ततः शिष्य आह-सुन्दरं युक्तमेतत् पूतिपरिहरणमिति शिष्येण भणिते गुरुर्भणति
॥५०
Jain Education in
For Private & Pertsonel Use Only
www.jainelibrary.org