________________
क्षमा रत्नीयावचूर्युपेता
श्री
पिण्ड
निर्युक्तिः ।
॥ ४५ ॥
Jain Education Int
सुन्दरीभिरिव समलङ्कृतं गृहं वधूञ्च, सरागदृष्टया न विलोकयति, किन्तु केवलां तां चारिं पानीयं च समानीयमानं विभावयति । सूत्रं सुगमम्, किन्तु 'पंचविहे 'त्यादि, पञ्चविधविषयसौख्यखनय इव या वध्वस्ताभिः समधिकमतिशयेन रमणीयं तद्गृहं न गणयति, न दृष्ट्या परिभावयति, नापि ता वधूः, एवं साधुरपि मिक्षार्थं प्रविष्टो नालोकते रूपादि, भिक्षामेव परिभावयतीत्युपयुक्तम् [ ता ], तथा च जानाति शुद्धमशुद्धं वा ।। २२५-२२६ ।। तदेवाह - गमागमणुक्खेवे भासिय सोयाइइंदियाउत्तो। एसणमणेसणं वा तह जाणइ तम्मणो समणो ॥ २२७॥
गमनमागमनं च दात्र्या उत्क्षेपो - माजनादीनामुत्पाटनं भाषितं जल्पितं 'इंदियाउत्तो' इत्यादि, श्रोत्रादीन्द्रियानि तैरुपयुक्तः, तथा वत्स इव तन्मनाः श्रमण एषणामनेषणां वा जानाति || २२७ ॥ अथ विभागौदेशिकमाह - महईए संखडीए उव्वरिय कूरवंजणाईयं । पउरं दहूण गिही भणइ इमं देहि पुण्णट्ठा ॥ २२८ ॥
महत्यां सङ्खडयां विवाहादिप्रकरणे उद्धरित कूव्यञ्जनादिकं प्रचुरं धान्यं दृष्ट्वा गृही भणति, कमप्युद्दिश्य इदं भक्तं पुण्यार्थे भिक्षाचरेभ्यो देहीति । उद्दिष्टादिस्वरूपं पूर्व कथितमेव ॥ २२८ ॥ भाष्यम् - तत्थ विभागुद्देसियमेवं संभवइ पुवमुद्दिटुं । सीसगणहियट्ठाए तं चैव विभागओ भणइ ॥भा. २३॥ तत्रोद्धरिते कुरादौ विभागौदेशिकं एवं पूर्वोक्तन्यायेन पूर्वमुद्दिष्टं सम्भवन्ति, अथ तदेव शिष्यगणहितार्थ विभागतो मेदेन भणति ग्रन्थकारः ॥ २३ ॥
For Private & Personal Use Only
विभागौदेशिकम् ।
॥ ४५ ॥
www.jainelibrary.org