________________
क्षमारत्नीया
वचूर्युपेता
श्री
पिण्ड -
निर्युक्तिः ।
॥ ४१ ॥
Jain Education Inte
पृच्छायां कृतायां यद्भवति तदाह
तुज्झट्टाए कयमिणमन्नोऽन्नमवेक्खए य सविलक्खं । वज्जंति गाढरुट्ठा का भे तत्तित्ति वा गिण्हे ॥२०५॥
यदा कापि दात्री ऋजुता युष्मदर्थायेदं कृतमिति वक्ति, अथवा मायाविकुटुम्बं तन्मुखेनैवमाचष्टे - गृहार्थमेतत् कृतं न तवार्थायेति परं ज्ञाता वयमिति सविलक्षं सर्वाण्यपि मानुषाणि परस्परमवेक्षन्ते चकाराद्धसन्ति च तदा साधवस्तद्देयमाधकम्मैति ज्ञात्वा वर्जयन्ति, यदा दात्री पृष्टे सति गाढं रुष्टा भवति, यथा हे तापस ! तत्र का तृप्तिरिति तदा शङ्कापरिहारेण गृह्णति || २०५ || अथ " गहियमदोसं चे "ति पञ्चमद्वारमाह
गूढायारा न करेंति आयरं पुच्छियावि न कहेंति । थोवंति व नो पुट्ठा तं च असुद्धं कहं तत्थ ? ॥ २०६ ॥ गूढाचा गुप्तस्वभावा न कुर्वन्त्यादरं, पृष्टा अपि न कथयन्ति, स्तोकमिति साधुना न पृष्टाः तच्च देयवस्तु अशुद्धं तत्र साधोः कथं शुद्धिर्भविष्यतीति १ ।। २०६ ।। शिष्येण पृष्ठे गुरुराह—
आहा कम्मपरिणओ फासुयभोईवि बंधओ होइ । सुद्धं गवेसमाणो आहाकम्मेवि सो सुद्धो ॥ २०७ ॥
प्राकभोज्येऽपि आधाकर्म्मपरिणतः कर्म्मणां बन्धको भवति, शुद्धं गवेषयन् आधाकर्म्मण्यपि गृहीते स शुद्धः स्यादिति, ।। २०७ ।। एतदेव कथानकाभ्यां भावयति
संघुद्दि सोउं एइ दुयं कोइ भाइए पत्तो । दिन्नंति देहि मज्झति गाउ साउं तओ लग्गो ॥ २०८ ॥
For Private & Personal Use Only
आधाकर्मणि
शिष्यगुर्वोः प्रश्नोत्तरम् ।
॥ ४१ ॥
www.jainelibrary.org