________________
Jain Education International
निकरप्रपातेन तप्यमानो मूर्च्छामगमत् क्लेशं च महान्तं प्रापेति । १९८-२०० ॥
इ अविपरिहरणा नाणाईणं न होइ आभागी । दवकुलदेस भावे विहिपरिहरणा इमा तत्थ ॥ २०९ ॥ इति अविधिपरिहरणाद् ज्ञानादीनामाभागी न भवति, तस्माद्विधिना परिहरणं कर्त्तव्यम्, तच्चेदं द्रव्यकुलदेशभावानाश्रित्य स्यात् ॥ २०९ ॥ तत्र द्रव्यादीन् गाथाद्वयेनाह -
ओयणसमिइमसत्तुगकुम्मासाई उ होंति दवाई | बहुजणमप्पजणं वा कुलं तु देसो सुरट्ठाई ॥ २०२ ॥ आणायर भावे सयं व अन्नेण वाऽवि दावणया। एएसिं तु पयाणं चउपयतिपया व भयणा उ । २०३ ।
ओदनः समितिमा :- माण्डादिकाः सक्तवः कुल्माषाद्या द्रव्याणि, बहुजनमल्पजनं वा कुलं, देशः सुराष्ट्रादिः, आदरोनादरो वा भावे, एतावेव विशेषयति-स्वयं- चान्येन कर्मकरादिना यद्दापनं ततो यथासङ्ख्यमादरानादरौ, एतेषां च पदानां भजना- विकल्पना चतुष्पदा त्रिपदा वा स्याद् यदा चत्वार्यपि द्रव्यादीनि भवन्ति, तदा चतुष्पदा, यदा नादरो नाप्यनादरस्तदा त्रिपदेति ॥ २०२ - २०३ ॥ अथ यादृशेषु द्रव्यादिषु सत्सु पृच्छा यादृशेषु न पृच्छेत्याहअणुचियदेसं दवं कुलमप्पं आयरो य तो पुच्छा। बहुएवि नत्थि पुच्छा सदसदविए अभावेवि ॥ २०४ ॥
अनुचितदेश-देशासम्भवि द्रव्यं कुलं चाल्पं आदरश्च दृश्यते, ततः पृच्छा कार्या, स्वदेश भाविनि द्रव्ये बहुके प्रभूतेऽपि पृच्छा नास्ति परं कुलं विलोकनीयमल्पकुलपृच्छा स्यादिति, अभावे-आदररहितत्वे नाम्ति पृच्छा ॥ २०४ ॥ अथ
For Private & Personal Use Only
आधाकर्मणि
पृच्छोचिता
द्रव्याद्याः ।
www.jainelibrary.org