________________
क्षमा
रत्नीया
वचूर्युपेता श्री
'पिण्डनिर्युक्तिः ।
॥ ३३ ॥
Jain Education Interla
जत्थ उतइओ भंगो तत्थ न कप्पं तु सेसए भयणा । तित्थंकर केवलिणो जहकप्पं नो य सेसाणं ॥ १५९ सूचनात् सूत्र 'मिति यत्र साधर्मिके तृतीयो भङ्गः प्रवचनतः साधर्मिका लिङ्गतचेत्येवंरूपस्तत्र न कल्पते, यतः प्रत्येकबुद्ध तीर्थकर वर्जा यतयस्ततस्तेषामर्थाय कृतं न कल्पते, तुशब्दोऽनुक्तस्य समुच्चये, तत एकादश प्रतिमां प्रतिपन्नस्य श्रावकस्य तृतीयभङ्गभाविनोऽप्यर्थाय कृतं कल्पते इति केचित्पुनराहुः - सोऽपि प्रतिमावान् साधुकल्प इति न कल्पते, तदयुक्तं, मूलटीकायामसम्मतत्वात्, 'सेस' चि, शेषके भङ्गत्रये भजना - विकल्पना कचित् कल्पते कचिन्नेति, अथ सामान्येन भङ्गचतुष्टयमधिकृत्योदाहरति-यथेत्युदाहरणोपन्यासे, तीर्थकर केवलिनोऽर्थाय कृतं कल्पते, न शेषसाधूनामर्थाय कृतमिति ॥ १५९ ॥ मूलद्वारगाथायां " कस्स वावी "ति व्याख्यातम्, अथ " किं वावी "ति ( नि. ९४ ) व्याख्यानयतिकिं तं आहाकम्मति पुच्छिए तस्सरूव कहणत्थं । संभवपदरिसणत्थं च तस्स असणाइयं भणइ ॥ १६०॥ farara पृष्ठे शिष्येण तत् स्वरूपकथनार्थं तस्य आधाकर्म्मणः सम्भवप्रदर्शनार्थं च गुरुरशनादिकं भणति ॥ १६० ॥ सम्प्रत्यशनादिकमेव व्याचष्टे -
सालीमाइ अवडे फलाइ सुंठाइ साइमं होइ । तस्स कडनिट्ठियंमी सुद्धमसुद्धे य चत्तारि ॥१६१ ॥
शाल्याद्यशनं, अवटः- कूप उपलक्षणत्वात्तटाकादिपरिग्रहः, अवटादिस्थं जलं पानमित्यर्थः फलं नालिकेरादि खादिमं, शुष्ट्यादि स्वादिमं भवति, एतेष्वाघाकर्म्मणः सम्भवात् स्वरूपत्वमुक्तम्, एतेषां अत्रैतेष्वाधाकर्म्मरूपेषु प्रत्येकं चतुर्भङ्गीमाह
For Private & Personal Use Only
आधाक
र्माशनादि विवरणम् ।
॥ ३३ ॥
www.jainelibrary.org