SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ चतुर्मङ्गिकाणामतिदेशः। नापि भावनातोऽसमानत्वात् , त एव इत्थमनुक्ता अपि पाश्चात्यभङ्गकेषु भङ्गाः स्वयमृह्याः। अत्र सर्वत्र श्रावकलोकविख्यातनिहवानां कृते कृतं कल्पते, प्रत्येकबुद्धतीर्थकुदर्थकृतं साधूनामर्थाय च कृतं न कल्पते, एवमेकविंशतिरपि चतुर्भङ्गिकाः प्रोक्ताः, अथ सामान्यकेवलिनं तीर्थकरं चाधिकृत्य करण्याकल्प्यविधि कथयति । केवलज्ञानिनः सामान्यसाधो उपलक्षणत्वात्तीर्थङ्करप्रत्येकबुद्धवर्जशेषसाधूनामित्यर्थः, तीर्थङ्करस्य, तीर्थकरग्रहणमुपलक्षणं, तेन प्रत्येकबुद्धस्य चार्थाय कृतं, यथाक्रमं न कल्पते, तुशब्दस्यानुक्तसमुच्चायकत्वात् , कल्पते च, अयं भावः-तीर्थकरप्रत्येकबुद्धवर्जशेषसाधूनामर्थाय कृतं न कल्पते तीर्थकरप्रत्येकबुद्धानां त्वर्थाय कृतं कल्पते, तथा हि-तीर्थकरनिमित्तं कृतेऽपि समवसरणे साधूनामुपदेशश्रवणार्थमुपवेशनादि कल्पते, एवं भक्ताद्यपि, एवं प्रत्येकबुद्धस्यापि, कापि तु पाठ एवायं-"केवलनाणे तित्थंकरस्स जह कप्पड़ कयं तु" अत्र तु कल्पते इति सङ्गतमेव ॥१५७ ।। अथ यानाश्रित्य पूर्वोक्ता भङ्गाः सम्भवन्ति तान् प्रतिपादयतिपत्तेयबुद्धनिण्हव उवासए केवली वि आसज । खइयाइए य भावे पडुच्च भंगे उ जोएजा ॥१५॥ प्रत्येकबुद्धान् निवान् उपासकान्-श्रावकान् केवलिनः, अपिशब्दाच्छेषसाधूनाश्रित्य तथा क्षायिकादीन् भावान् क्षायिकादिदर्शनानि, चशब्दाद्विचित्राणि ज्ञानानि चरणानि अभिग्रहान् भावनाश्च प्रतीत्य भङ्गान् योजयेत्, तथैव चोक्ता | इति स्थितम् ॥ १५८ ॥ अथ प्रथमचतुर्मङ्गिका प्रवचनलिङ्गविषयामधिकृत्य विशेषमाह www.jainelibrary.org Jan Education a For Private Personal Use Only l
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy