SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विविध चतुर्भङ्गि काणां घटना। यथा प्रवचनेन सह दर्शनमुक्तं एवं ज्ञानचारित्रेऽपि मङ्गद्वयोपन्यासेन प्रवचनेन सह योज्ये, यथा प्रवचनतः साधम्मिका न ज्ञानतो, विसदृशज्ञानसहिताः साधवः श्रावका वा, साधूनामय कृतं कल्पते नैत्र, श्रावकाणां त्वर्थाय कृतं करपते इति सर्वत्र, ज्ञानतः साधर्मिका न प्रवचनस्तीर्थङ्करप्रत्येकबुद्धाः एवं चारित्रेणापि सदृशादिपर्योगः कार्यः। पञ्चमषष्ठीचतुर्भङ्गिकयोराचं भेदद्वयमाह गाथार्द्धम् पाश्चात्यं-प्रवचनतः साधम्मिकतोऽभिग्रहतः श्रावका यतयश्च विसदृशाभिग्रहसहिताः अभिग्रहेण साधम्मका न प्रवचनेन निहवतीर्थङ्करप्रत्येकबुद्धाः, एवं प्रवचनेन सह भावना विसदृशादिपर्योज्या, यथा प्रवचनतः साधम्मिका न भावनातः साधवः श्रावका वा विसदृशभावनायुक्ताः, भावनातः साधम्मिका न प्रवचनतो निह्नवतीर्थङ्करप्रत्येकबुद्धाः, एवं शेषभङ्गद्वयमपि ज्ञेयम् , तदेवं प्रवचनाश्रिता षडपि चतुर्भङ्गाः, इतः शेषचतुर्मङ्गिकानामुदाहरणानि वक्ष्ये ।। १४८-१४९॥ । लिङ्गाईहिवि एवं एकेकेणं तु उवरिमा नेया। जेऽनन्ने उवरिल्ला ते मोत्तुं सेसए एवं ॥ १५०॥ 'सप्तम्यर्थे तृतीया' ततो लिङ्गादिष्वपि पदेषु एकैकेन लिङ्गादिना पदेन उपरितनानि-दर्शनज्ञानप्रभृतीनि पदानि नयेत् , पूर्वोक्तानुसारेण चतुर्भङ्गिका ज्ञेयेति, अतिसङ्किप्तव्याख्यानमितीहविशेषमाह-जेऽणन्ने इति, ये अनन्ये उदाहरणा. पेक्षया अन्यादृशा न भवन्ति किन्तु तुल्या एवेति तान् मङ्गकान् मुक्त्वा शेषानुपरितनान् मेदानेवं वक्ष्यमाणप्रकारेण NI जानीत, अयं भावः-लिङ्गदर्शनयोर्ये चत्वारो भङ्गाः सोदाहरणा वक्ष्यन्ते-तत् समाना एव, लिङ्गज्ञानलिङ्गचरणयोरपि भङ्गाः, ना तान् मुक्त्वा लिङ्गदर्शनलिङ्गाभिग्रहादि भङ्गानुदाहरिष्यामि, तत्र लिङ्गदर्शनचतुर्भङ्गिका ॥ १५० ॥ आघमङ्गद्वयमाह Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy