SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नवपद- दृत्तिमू दव. मायतना गा.८ वृ. यशो. नामिथ्यात्वविषयेयमितो नाप्रस्तुताभिधानं । अहो अम्मडशिष्याः सम्यग्दृष्टयो देशविरताश्च श्रूयन्ते तत्कथमियं । मिथ्यात्वयतना ?, उच्यते, पारिवाज्यं हि मिथ्यादृष्टयनुष्ठानमतः सम्यग्दृष्टयोऽपि देशविरता अपि मिथ्यादृश इव व्यवाहियन्ते, न च व्यवहारो न प्रधानमिति वचनीयं, "जइ जिणमयं पवजह ता मा ववहारनिच्छए मुयह ।।। ववहारनउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥” इतिवचनात, एतदेव फलद्वारेणोपदर्शयन्नाह-'बंभे कप्पे समुप्पण्णा' पदावयवेन पदसमुदायव्यपदेशाद्ब्रह्मणीत्यनन ब्रह्मलोके इति लभ्यते, ब्रह्मलोके-पञ्चमे कल्प ते मिथ्यात्वयतनानुभावादुत्पन्नाः, अन्यथा सम्यग्दृष्टित्वात् केचिदच्यतेऽप्युत्पद्येरन्, उक्तं हि-" उववाओ सावगाणं उक्कोसेणं तु अच्चुओ जाव । जावंति बमलोओ चरगपरिवायउववाओ॥१॥” इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम् इह यदा भगवानुत्पन्नदिव्यविमलकेवलज्ञानः क्षायिकदर्शनचारित्रप्रमुखगुणरत्नराजितो जितजगत्त्रयमकरध्वजमहावैरी विजयावाप्तासमिमहिमप्राग्भारो धरापतिश्रीसिद्धार्थतनयो विजहार महावीरः तदाऽष्टौ ब्राह्मणाः परिव्राजका बभूवुः, तद्यथा-" कृष्णो १ द्वीपायनः २ कण्डुः ३, करकण्डुः ४ पराशरः ५। अम्मडो ६ देवगुप्तश्च ७ Jain Education InHella For Private & Personal Use Only Hrww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy