SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्याख्या-मिथ्यात्वं नाम विपरीतबोधस्वरूपम् उक्तञ्च-“मिथ्यात्वस्य हादये जीवो विपरीतदर्शनो भवति न च तस्मै सद्धर्मः स्वदते पित्तोदये घृतवत् ॥ १॥” तस्य गुणोऽयम्-एषोऽनभिनिवेशरूपो, वर्त्तत इति शेषः, कुतः? इति चेदाह-'अनभिनिवेशेन लभते सम्यक्त्वं' यत इत्यध्याहारात, यस्मादभिनिवेशः-कदाग्रहस्तस्याभावोऽनभिनिवेशस्तेन हेतुना करणेन वा 'लभते' प्राप्नोति, अनभिनिविष्टमिथ्यादृष्टिरिति शेषः, किं-'सम्यक्त्वं यथाऽवस्थितार्थप्रतिपत्तिरूपं. सम्भवापेक्षया चैतदुच्यतेन च नियमः, यदुक्तम्-"विवरीयसदहाणे मिच्छा भावा न सन्ति केइ गुणा। अगभिनिवेसाओं कयावि होइ सम्मत्तहेऊवि ॥ १॥" ति । ननु मिथ्यात्वस्य सर्वघातिप्रकृतिमध्यपठितत्वात्कथं | 7 गुणरूपता ?, सत्यं, गुणहेतुत्वात् गुणहेतुत्वं च तस्यानेकभेदत्वेन विशुद्धितारतम्यस्य घटमानकत्वात् , ' जत्ति-11 याई संकिलेसट्ठाणाई तत्तियाई विसोहिट्ठाणाई ' तिवचनाद् , व्यवहारनयापेक्षं चेदं, निश्चयतः सम्यग्दृष्टिरेव सम्यक्त्वं ॥ लभत इत्युक्तेः, प्रकृतानुरूपनिदर्शनप्रतिपिपादयिषयाऽऽइ- यथेन्द्रनागमुनिना गौतमप्रतिबोधितेने ' ति. यथेत्युदाहरणोपदर्शनार्थः, 'इन्द्रनागमुनिना' इन्द्रनागश्वासौ बालतपस्वितया प्रसिद्धत्वान्मुनिश्च स तथा तेन, ििवधेन ?-गौतमः-चरमतीर्थकृतः प्रथमगणधरस्तेन प्रतिबोधितः-सन्मार्ग लम्भितस्तेन, लब्धमिति शेषः, 'इति Jain Education Intelle For Private & Personel Use Only alw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy