________________
क्षीणौ निपतितौ तुरङ्गौ, ततः पादाभ्यामेव गच्छन्तौ प्राप्तौ कोट्टाभिधानं ग्राम, तद् बहिः कुमारण भणितो वरधनुः, यथाबाधते मामतीव क्षुधा, दृढं परिश्रान्तश्चास्मि, तच्छत्वा वरधनुस्तत्रैवतं संस्थाप्यैकस्य वृक्षस्य बहलच्छायायां स्वयं गत्वा ।। ग्राममध्यमानीय ततोऽपि नापितं मण्डयित्वा कुमारस्य शिरः परिधापयामास कषायवस्त्राणि चतुरङ्गुलप्रमाणपट्टबन्धेन| बबन्ध च श्रीवत्सालङ्कतमस्य वक्षःस्थलं. आत्मनाऽपि विहितो वेषपरावतः ततो द्वावपि प्रविष्टौ ग्रामाभ्यन्तर, अत्रान्तरे निर्गत्यैकद्विजवरगृहादेकपुरुषणोक्तौ-स्वागतं युवयोः?, आगम्यतां मन्दिरं भुज्यतां चेति, तद्वचनानन्तरं गता तौ तद्गृहं, विहितराजानुरूपप्रतिपत्ती भुक्तौ च, कृताचमनादिव्यापारयोः सुखासनस्थयोश्च तयोस्तत्स्थानवर्तिनी । बन्धुमतीनामिकां कन्यामुद्दिश्यैका प्रवरमहेला कुमारमस्तके प्रक्षिप्याक्षतानवादीत्-पुत्र ! त्वमस्याः कन्यायाः प्राप्तो वर इति, तच्छ्रुत्वा वरधनुनाऽवाचि-किमेतस्य मूर्खबटोर्निमित्तमात्मा खेद्यते ?, गृहस्वाम्यवादीत्-मैवं वोचः, प्रथममेव यतोऽस्माकं नैमित्तिकेनादिष्टमास्ते, यथा-पट्टच्छादितवक्षा उपेत्य यस्त्वद्गृहं समं सुहृदा। संभोक्ष्यते स भविता त्वहु-|| हितुर्गहपते ! भर्चा ॥१॥ ततस्तद्वचनेन तृष्णीस्थिते वरधनी तस्यामेव वेलायां ग्राहितो बन्धुमत्याः पाणिं कुमारः स्थितश्च तं दिवसं तत्रैव, द्वितीयदिने भणितः कुमारो वरधनुना-दूरं गन्तव्यमतो निर्गम्यतामितः, ततो बन्धुमत्याः॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org