SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ तयोदितं-बालत्वाद्यद्वा तहा ब्रवीति, तेनोक्तं-मैवं वोचः, प्रेक्षापूर्वकारितयैवमभिधत्ते, तत्कोमलोऽप्युच्छेद्यतां व्याधिः, a व्यापाद्यतामेष आवयो रतिसुखव्याघातकारी, मयि स्वाधीने तवान्येऽपि तनूजाः संपत्स्यन्ते, कामसुखगृहया च तयैतद्वचनमचिन्त्यमप्यङ्गीकृतं कर्तुं, यतः-" व्यापादयति तनूजं मारयति पतिं विनाशयत्यर्थम् । रागाविष्टा रमणी किं वा तद्यन्न विदधाति ? ॥१॥" तथाऽन्यैरप्युक्तम्-" आधारो मानसानां कपटशतगृहं पत्तनं साहसाना, तृष्णामेजन्मभूमिर्मदनजलनिधिः कोपकान्तारपारः। मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचित्ता, स्त्री नामातीव दुर्ग शयगहनं वैरिणा केन सष्टम् ? ॥२॥ भणितं च तया-यद्येवं तदा तथा विनाश्यतामसौ यथा जनापवादो न जायते. दीर्घेणोक्तं-स्तोकमिदं, तथा विधास्यामि यथा शोभनं सर्व भविष्यति, यतः कुमारस्य प्रारब्धो वर्त्तते विवाहोत्सवः, तदर्थ च कारयिष्याम्यनेकस्तम्भप्रतिष्ठितं गुप्तनिर्गमप्रवेशं जतुगृहं, विवाहानन्तरं च तत्र सुखप्रसुप्तस्याग्निदानेन जनालक्षितमेव यथाचिन्तितकार्यमस्य भविष्यति, एवं मन्त्रायित्वा प्रारब्धा महाराजदुहितुः कुमारपाणिग्रहणनिमित्त समग्रसामग्री। इतश्च धनुर्मन्त्रिणा ब्रह्मदत्तकार्यावहितेन विज्ञप्तो दीर्घराजो, यथा-अयं मत्पुत्रोवरधनुः सम्प्रति राज्यKel कार्यचिन्तनसमर्थो वर्त्तते, तदयमेव चिन्तयिष्यति वः प्रयोजनानि, अहं तु किमपि तीर्थ गत्वा परलोकहितमाच lain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy