SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Jain Education | रोमि, अत्र चाहारपौषधादीनां चतुर्णामपि चतुर्भिर्विशेषणैरुग्रतपश्चरणादिभिः क्रमेण भावना दृश्येति गाथार्थः ॥ उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं चतुर्थव्रतस्यावसरः, तत्रापि प्रथमद्वारस्येत्यतस्तत्तावदुच्यते साहूणं जं दाणं नायागयकप्पमन्नपाणाणं । सो अतिहिसंविभागो सद्भासकारकमसहिओ ॥ १२० ॥ ज्ञानदर्शनचारित्रैर्मोक्षं साधयन्तीति साधवो -- यतयस्तेभ्यः साधुभ्यो यद् 'दानं' वितरणम्, अत्र "छडिवि भत्तीऍ भण्णइ चउत्थी " इत्यनेन चतुर्थी, केषां सम्बन्धि दानमित्याह - ' न्यायागतकल्प्यान्नपानानां ' न्यायेनवणिक्कलादिनीत्या, नतु क्षत्रखननाद्यपन्यायेन आगतानि - उपार्जितानि न्यायागतानि कल्प्यानि -- यतिजनोचितानि न त्वाघाकर्मादिदुष्टतयाऽयोग्यानि, अन्नपानानि - आहारपानीयानि, बहुवचनेन चादिशब्देने. वौषधवस्त्र पात्रादिग्रहः कर्मधारय समासश्चात्रैवं - कल्प्यानि च तान्यन्नपानानि च कल्प्यान्नपानानि न्याया| गतानि च तानि कल्प्यान्नपानानि च तानि तथा तेषां यद्दानं, तत्किमित्याह - ज्ञानादिगुणसमन्वितस्तिथिपर्वादिनिरपेक्षमेव भोजनकालोपस्थाय्यतिथिः तथा चोक्तम्- “ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy