SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पौरुषी कुर्वत्या एवापाकमस्तकस्थानि भाण्डान्यवतारयता झगित्येव ज्वलदङ्गारक एकस्तथा प्रक्षिप्तो यथा तत्सङ्घाटिकैकदेशे लग्नः, तया च दृष्टा भणितम्-यथा भो भो श्रमणोपासक ! किं मदीया सङ्घाटी त्वयैनमङ्गारं प्रक्षिप्य । दग्धा ?, तेनोक्तम्-किमित्यायें ! व्यलीकमभिदधासि ?, न हि दह्यमानं दग्धमुच्यते त्वन्मते, सङ्घाटी च त्वदीया । दह्यमानैवेदानीं वर्त्तते, इत्याद्युक्ता सा प्रतिबुद्धाऽवदत्-यथा साधु कृतं श्रावक ! इच्छामि सम्यगनुशिष्टिमहम्, एवं |च दत्तमिथ्यादुष्कृता भगवदाज्ञाविलोपिनमात्मानं निन्दन्ती गता जमालिपार्श्व, स्वाभिप्रायं च सयुक्तिकं बहुश उक्त|वती, तथाऽपि न प्रतिपन्नवानसौ, ततः सा परिशेषसाधवश्व स्वामिसकाशमेव गताः, इतरोऽप्येकाकी तस्माद्दुष्प्ररूपणादनालोचिताप्रतिक्रान्तो बहूनि वर्षाणि श्रामण्यपर्यायं परिपाल्याईमासिकसंलेखनयाऽऽत्मानं संलिख्य त्रिंशद्भक्तान्यनशनेनावच्छिद्य कालमासे कालं कृत्वा लान्तककल्पे त्रयोदशसागरोपमस्थितिकः किल्बिषिको देवः समुत्पन्नः । मतिभेदकमिथ्यात्वे जमालिचरितं निवेदितं किञ्चित् । विस्तरतो विज्ञेयं प्रज्ञप्तेनवमशतकात्तु ॥१॥ उक्तं जमालिचरितं, श्रुतदेवीप्रसादतः। पूर्वव्युग्रहमिथ्यात्वे, गोविन्दस्याधुनोच्यते ॥१॥ Jain Education Intern For Private & Personel Use Only W w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy