________________
Jain Education Int
| वृत्त्य पश्यावः पुनस्तत्स्थानमालभेवहि तत्स्थावेव तावसी, चन्द्रपालोऽब्रवीत् न मे नृपतिप्रसादेन किञ्चिदूनमस्ति, यदि विस्मृतौ विस्मरतु नाम अन्यो भव्यतरो भविष्यति, ततो जिनपालेन चिन्तितं - सत्यमेतदसौ ब्रूते, यदन्योऽपि भविष्यसि । नृपतिप्रसादतः खड्गः, किन्त्वसौ वेत्ति नेदृशम् ॥ १ ॥ पञ्चेन्द्रियवधप्रौढं, शस्त्रमेतदतोऽमुतः । महानर्थोऽविधित्यक्तादिहामुत्र च संभवी ॥ २ ॥ तस्मादज्ञानतिमिरतिरोहितविवेकलोचनो यद्येष निर्ग्रहणतां करोति करोतु नाम, मम त्वनुजिनागमोपदेशस दौषधनिराकृताज्ञानतमस्ततेः न युक्ता महानर्थहेतोरेतस्योपेक्षा, ततो गत| स्तत्स्थानं गवोषितः सर्वत्र पृष्टाश्च तत्प्रदेशवर्त्तिनो जनाः न लब्धा काऽपि तच्छुद्धिः, ततो व्युत्सृज्यात्मीयपरिग्रहा| न्मण्डलाग्रं तत्स्थानासन्नवर्त्तिजनसमक्षं समागतो भूयोऽपि स्वकीयकटकदेशं, कालान्तरे च विजितप्रतिपक्षेण राज्ञा सह समाजग्मतुस्तौ स्वनगरमङ्गरक्षौ, इतश्च- देशान्तरीयैः कैश्वित्प्राप्तौ खड़ौ, परिभ्रमन्तश्च ते समाजग्मुस्तदेव नगरं ददृशुश्च कचिद्रहः स्थितं कथञ्चित्प्रमत्तं राजपुत्रं, प्रारब्धो बन्दिग्रहेण ग्रहीतुमसौ तैः, ततो विज्ञाततद्भावेन | नरेन्द्रतनयेनारब्धं तैः सह प्रधनं, अन्योऽन्यप्रहारैश्च नृपसूनुस्ते च प्राप्ता निधनं मिलितस्तत्र प्रभृतो लोकः केन| चिच्च राजपुरुषेण ददृशाते तौ जिनपालचन्द्रपालनामाङ्कौ कृपाणी, प्रच्छन्नीकृत्यार्पितौ नरपतेः कथिता च पुत्रमरण
For Private & Personal Use Only
www.jainelibrary.org