SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीनयपदट्ट महमोगोपभोग० ॥ २१३ ॥ Jain Education In 66 बाला, नवयौवनवर्त्तिनी । इतः सहोदरभ्रातुर्वाचाभङ्गोऽतिदुष्करः ॥ १ ॥ इतोऽप्यभिनवोदूढप्रियया विरहो महान् । इतोऽपि लघुता भ्रातुः श्रेयः किं ? यत्करोम्यहम् ॥ २ ॥ तथाप्येतदेव प्राप्तकालं यन्मदीयभ्राता भणति, मा भूत् साधुजनपुरतो मत्सहोदरस्यान्यथावादित्वं, एवमालोच्य भणितमनेन, एवमिति, ततस्तन्मुहूर्त्त एव प्रब्राजितो गुरुणा, विहृतश्चान्यत्र, | ज्ञापितः सकलां साधुसामाचारी, करोति भ्रातुरुपरोधेन प्रव्रज्यां हृदयेन त्वभिनवपरिणीतां तामेव निजजायां सर्वदाऽनुस्मरन्नास्ते, एवं च व्रजति काले सूत्रपौरुष्यां पठतोऽस्यान्यदा समागतमिदं सूत्रम् - " न सा महं नोऽवि अहंपि तीसे " तत आशङ्कितमनेन स्वचेतसि - अलीकमेतद्, यतः सामहं अपि तीसे " इत्थंकारमेव च घोषयितुं प्रवृत्तो, वारितः साधुभिर्न तस्थौ, भवदत्तश्च कालक्रमेण कृतसंलेखन आयुःक्षयेण मृत्वा समुत्पन्नः सौधर्मकल्पे | देवत्वेन तत्रोपरते भवदेवो दयितादर्शनतृष्णापरिगतचित्तो विमुक्तगुरुविनयः शिथिलितयत्याचारो मदनशरैर्व्यथितु मारब्धः, एवं च तस्य गलितं धर्मोपदेशेन पलायितं सद्बोधेन विनष्टं विवेकरत्नेन आगतं कुलाभिमानेन प्रयातं दाक्षिण्येन प्रचलितं पौरुषेण दूरीभूतं शीलेन निःस्यूतं व्रतधारणाभिप्रायेण, किं बहुना ? ' अग्रस्थामिव चेतसः पुरइव व्यालम्बमानां दृशोर्जल्पन्तीमिव रुन्धतीमिव मना मन्दं हसन्तीमिव । निद्रामुद्रितलोचनोऽपि सततं तामेव For Private & Personal Use Only भावदेववृत २१३ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy