SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीनयपदट्ट महमोगोपभोग० ॥ २१३ ॥ Jain Education In 66 बाला, नवयौवनवर्त्तिनी । इतः सहोदरभ्रातुर्वाचाभङ्गोऽतिदुष्करः ॥ १ ॥ इतोऽप्यभिनवोदूढप्रियया विरहो महान् । इतोऽपि लघुता भ्रातुः श्रेयः किं ? यत्करोम्यहम् ॥ २ ॥ तथाप्येतदेव प्राप्तकालं यन्मदीयभ्राता भणति, मा भूत् साधुजनपुरतो मत्सहोदरस्यान्यथावादित्वं, एवमालोच्य भणितमनेन, एवमिति, ततस्तन्मुहूर्त्त एव प्रब्राजितो गुरुणा, विहृतश्चान्यत्र, | ज्ञापितः सकलां साधुसामाचारी, करोति भ्रातुरुपरोधेन प्रव्रज्यां हृदयेन त्वभिनवपरिणीतां तामेव निजजायां सर्वदाऽनुस्मरन्नास्ते, एवं च व्रजति काले सूत्रपौरुष्यां पठतोऽस्यान्यदा समागतमिदं सूत्रम् - " न सा महं नोऽवि अहंपि तीसे " तत आशङ्कितमनेन स्वचेतसि - अलीकमेतद्, यतः सामहं अपि तीसे " इत्थंकारमेव च घोषयितुं प्रवृत्तो, वारितः साधुभिर्न तस्थौ, भवदत्तश्च कालक्रमेण कृतसंलेखन आयुःक्षयेण मृत्वा समुत्पन्नः सौधर्मकल्पे | देवत्वेन तत्रोपरते भवदेवो दयितादर्शनतृष्णापरिगतचित्तो विमुक्तगुरुविनयः शिथिलितयत्याचारो मदनशरैर्व्यथितु मारब्धः, एवं च तस्य गलितं धर्मोपदेशेन पलायितं सद्बोधेन विनष्टं विवेकरत्नेन आगतं कुलाभिमानेन प्रयातं दाक्षिण्येन प्रचलितं पौरुषेण दूरीभूतं शीलेन निःस्यूतं व्रतधारणाभिप्रायेण, किं बहुना ? ' अग्रस्थामिव चेतसः पुरइव व्यालम्बमानां दृशोर्जल्पन्तीमिव रुन्धतीमिव मना मन्दं हसन्तीमिव । निद्रामुद्रितलोचनोऽपि सततं तामेव For Private & Personal Use Only भावदेववृत २१३ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy