SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ध्यमानोऽपि रमणीयरमणीजनरेषोऽहमागतो मा त्वरिष्ठा इति ब्रुवन्नेव दुर्वारभ्रातृस्नेहोत्कण्ठाविसंस्थुलितमानसः समाजगाम भ्रातृसमीपं, ववन्दे सादरं सह द्वितीयसाधुना एनं, साधुभ्यां दत्तो धर्मलाभोऽस्य, भाणितं च मिलितबन्धुजनसंमुखं यथा व्यावृत्ता भवन्तो व्रजामस्तावद्वयमिदानीं, पुनः समयान्तरे समेष्यामो, गृहस्थैरुक्तं-तिष्ठत क्षणं, पश्यत भ्रातुर्विवाहोत्सवं, किमौत्सुक्यं भवतां ?, साधुभ्यामभाणि-न कल्पतेऽस्माकमेवं, ततो निर्बन्धेनापि कृतेन यावत्तत्र । न स्थितौ तावत्प्रतिलाभितौ विपुलेनाशनपानखाद्यभेदेनाहारेण, समर्पितं च भक्ष्यभाजनं भवदत्वेन भवदेवकरे, प्रवृत्तौ । गन्तुं मुनी, स्तोकभूभागादभिवन्द्य निववृतेऽशेषलोकः, भवदेवश्च कथं भ्रात्राऽहमविसर्जितो निवर्त्त इति प्रतिप्रवेशपतितो गन्तुलारेभे, ददर्श च निवर्तनानिमित्तं वप्रपुष्करिणीवनखण्डादि, बभाण च अत्र क्रीडिता इह मज्जिता अस्मिन् पर्यटिताश्चेति, साधुश्च शून्यहुङ्कारः स्मरामि सर्वमिति ब्रुवंस्तावद्गतो यावत्प्राप्तो गुर्वन्तिकं, ततो दृष्ट्वा भवदेवं युवानं अभिनवोदूढनेपथ्यालङ्कृतं भवदत्तसाधुना सह समायातं भणितुं प्रवृत्ताश्चपलत्वेन क्षुल्लकाः, यथा-सत्या-1 पितं स्वोक्तं ज्येष्ठायैर्यथा मम भ्राताऽोदूढोऽपि प्रव्रजिष्यति यद्यहं भणिष्यामि, तत उपदार्शतः सूरीणां, तैरवाचिकिनिमित्तभेष आययौ ?, भवदत्तेनावादि-प्रव्रज्याथै, ततः पृष्टोऽसौ, किं सत्यमेतत् ?, तेनाचिन्ति-इतः प्राणप्रिया । Jain Education intdhathoma For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy