SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदंबू हभागापभोग० उपासनानगा ७५-७६ .१९५॥ मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां स्वरूपं | मेदाश्च समाहारः पञ्चोदुम्बरी,के पञ्चोदुम्बराः ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकाप्लक्षाः, सर्वेषामेषामुदुम्बरसमानजातीयत्वात् , मध्वादिपदानां च द्वन्दं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो । ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् ' विदध्यात् — द्वितीये ' उपभोगपः परिभोगपरिमाणवते. केन? इत्याह-अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम्-ओदनादि विलेपनं-क मादि वस्त्रं-चीवरम्, आदिशब्दापानककुसुमाभरणादिग्रहः, कुतः ? इति चेद् ब्रूमः, अशनविलेपनयोरुपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद एषां परिमितिः परिमाणम्-इयत्ता तस्य करणं-विधानं तेन अयमत्र भावार्थः-यो हि उपभोगपरिभोगयोः परिमाणमादत्ते-मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या, मध्वादिप्रवृत्तेर्वहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात्, तथा चोक्तम्-" चरिंदियजीवाणं देहवसाहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ॥ १९५॥ ओडणयं । विरुवयवायविहीलणजणयं मज परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं। Jain Education Intemagne For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy