________________
श्रीनवपद दिकपरिमाणे.
वना च
परिमाणातिक्रमे लाभस्तल्लाभस्तं, वाशब्दः पक्षान्तरसमुच्चये, 'गृह्णाति ' आदत्ते, जानान उपत्यकरणेन 'तस्य भंगद्वारंभागहीतदिकपरिमाणस्य 'ध्वं, निश्चितं भवति । संपद्यते 'इह' प्रस्तुतव्रते लोके वा 'भङ्गः, सर्वविनाशरूप
गा.७३-७४ इति गाथार्थः॥ भावनाहारमेतर्हि कथ्यते--
इरियासमियाएँ परिभमंति भूमण्डलं निरारंभा।
सव्वजगजीवहिया ते धन्ना साहुणो निचं ॥ ७४ ॥ ईरणमीर्या तस्यां सम्यगयनं समितिरीर्यासमितिः-अव्याक्षिप्तचेतसो युगमात्रान्तरन्यस्तलोचनस्य निरवद्यमार्गेण गमनं तयेर्यासमित्या, समिता इति गम्यते, ये परिभ्रमन्ति: यत्तदोनित्याभिसम्बन्धाद ये पर्यटन्ति. किं तत ?.. इत्याह-' भूमण्डलं ' महीवलयं, कीदृशाः ?- निरारम्भाः, आरम्भेभ्यो निर्गताः निरारम्भाः-आरम्भविवर्जिताः यत एवैवमत एव 'सर्वजगज्जीवहिताः । सर्वे च ते जगज्जीवाश्च सर्वजगज्जीवास्तेभ्यो हिताः, निःशेषचतुर्दशरज्ज्वा त्मकलोकवर्तिप्राणिवत्सलाः ' ते ' एवंगुणयुक्ताः ‘धन्याः । धर्मधनलब्धृत्वात्पुण्यभाजः ‘साधवः' तपस्विनः । ॥ १९४ ॥ 'नित्यं ' सदेति गाथार्थः॥भणितं प्रथमगणव्रतमिदानी द्वितीयं नवभेदमभिधातव्यं तत्रापि प्रथमहारेण तावदाह
Jain Education Interie
For Private & Personal use only
Talaw.jainelibrary.org