________________
श्री नवपद ह. चतुर्थेऽ पुत्रते.
॥ १७३ ।।
विमलेनापि रहस्यभेदो मा भूदिति चिन्तयता समुत्थाप्य भणिता - धीरा भव, अयमपि ममादेशः कृतो भविष्यति तज तावत्, ततो धनश्रिया न युक्तमिदं कर्त्तुं तथाऽप्यलक्ष्यवचनो भर्त्ता मया च प्रतिपन्नपूर्वमिदमतो यद्भवति तद्भवलिति चिन्तयन्त्या प्रतिपन्नं तद्वचः, ततो यदाऽहमानयामि तदाऽऽगन्तव्यमित्यभिधाय विसर्जिता तेन सा, दत्ता आप्तस्व पुरुषास्तत्सहायाश्च भणिताश्च स्वपुरुषाः यथा धनश्रियं पैत्रिकस्थाने विमुच्य शीघ्रमधौतपादैव ततो | निवर्त्तितव्यं, ततस्ते प्रतिपन्नतद्वचना धनश्रियं गृहीत्वा गतास्तत्पितृगृहं, मुक्ताऽसौ तत्र, निवृत्तास्तथैव ते पृष्टा च धनश्रीपितृभ्यां वत्से ! किमेवं ?, साऽवोचत् न जानामि, निरपराधैः निष्काशिता भर्त्रा, पितृभ्यामुक्तं नेदमुचित्तं, परं यावत्सम्यग्वार्त्तामुपलभावहे तावत्तिष्ठ त्वं ततोऽसौ तेन वचनेन मुद्गरणेव ताडिता रोदितुं प्रवृत्ता, चिन्तितवती च - अपरीक्ष्यैव यदहं प्रियेणाप्रियकारिणा । त्यक्ता सीतेव रामेण, हा किं तस्योचितं तु तत् १ ॥ १ ॥ तदेवं किं करोमि क्व वा यामि, कस्याग्रे कथयामि वा ? | वल्लभादुदिते दुःखे, जातं शरणतो भयम् ॥ २ ॥ अङ्गिनां धर्महीनानां यद्वा सुप्रापमीदृशम् । संसारेऽनिष्ठसंयोगाभीष्टहानिसमाकुले ॥ ३ ॥ स्वकर्म्मपरिपाकोऽयं, मथा सर्वोऽनुभूयते । तदस्योन्मूलन हेतोर्धर्म एव ममोचितः ॥ ४ ॥ इति संचिन्त्य सा नित्यं धर्मानुष्ठानसङ्गता । आसाञ्चक्रे क्रमायातसुखदुः
Jain Education International
For Private & Personal Use Only
प्रभाकथा
| ॥ १७३ ॥
1011 ww.jainelibrary.org