________________
श्रीनवपदह. चतुर्थेs
गा.४८
णुव्रते.
॥१४०॥
भणितं भावनाद्वारं, तगणनाच्च तृतीयाणुव्रतमुक्तं, सम्प्रति चतुर्थस्यावसरः, तदपि यादृशादिनवहारम् , अतः । यादृशद्वारं क्रमप्राप्तं प्रथमद्वारेण चतुर्थव्रतं निरूपयन्नाह
अट्ठारसहा बंभ नवगुत्तीपंचभावणासहियं ।
कामचउवीसरहियं दसहा वा अहा वावि ॥४८॥ कीदृशं ब्रह्मचर्यमिति स्वरूपाजज्ञासायां शिष्यस्योच्यते-'अष्टादशधा ब्रह्मेति ब्रह्मशब्देन ब्रह्मचर्यमभिधीयते, पदैकदेशे पदसमुदायोपचारात'तच्च अष्टादशभिः प्रकारैष्टादशधा त्रिविधं त्रिविधेन वैक्रियादौदारिकाच्च । निवृत्तेः, यदुक्तं वाचकमुख्येन-"दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥" पुनः कथम्भतमित्याह-'नवगुप्तिपञ्चभावनासहितं. नव गुप्तयो-ब्रह्मचर्यरक्षणप्रकाराः स्त्र्यादिसंसक्तवसतिविसर्जनादयो यत्र तत् नवगुप्ति भावनाभिः सहितं. कियत्यो भावनाः? इत्याह-पञ्च, यदिवा नव च ता गुप्तयश्च नवगुप्तयः पञ्च च ता भावनाश्व पञ्चभावनाः, नवगुप्तयश्च । पञ्चभावनाश्च ताभिः सहितं, तत्र नव गुप्तयो यथा-"वसहि १ कह २ निसिजि ३ दिय ४ कुटुंतर ५ पुवकालिय ६ पणीए ७ । अइमायाहार ८ विभूसणा ९ य नव बंभगुत्तीओ॥१॥" भावनाः पञ्च इमा:
॥१०॥
Jain Education T
ana
For Private & Personel Use Only
Lallwww.jainelibrary.org