________________
तेन प्रस्तुतेन व्यवह्रियमाणेन घृतादिना वा ब्रीह्यादिना वा प्रतिरूपं-सदृशं वसादि पलज्यादि वा यत्र स तथा तं, व्यवहारमिति शेषः, अथवा तस्य-व्यवह्रियमाणस्वर्णादेः प्रतिरूपं-सदृशं युक्तिस्वर्णादि तत्प्रतिरूपं तेन यो । व्यवहारः स तदभेदोपचारात्प्रतिरूपस्तं च वर्जयेत्, तथा विरुद्धः- प्रतिपन्थी, स च प्रस्तावात्स्वराज्यापेक्षया । द्रष्टव्यः, तस्य राज्यं-कटकं देशो वा तत्र गमनं विरुद्धराज्यगमनं तच्च वर्जयेत्, अतिचाररूपता चैषामेवं
काणक्रयेण लोभदोषाच्चौराहृतं प्रच्छन्नमाददानश्चौरो भवति, यदुक्तम्-" चौरश्चौरापको मन्त्री, भेदज्ञः काणक-I. । क्रयी । अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥” इत्यतश्चौर्यकरणाद् व्रतभङ्गो, वाणिज्यमेव मया क्रियते न ।
चौर्यमिति बुद्धया च व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः स्तेनाहतं । तस्करप्रयोगस्तु द्विविधत्रिविधेन । गृहीतादत्तादानविरतेयद्यपि भङ्ग एव, तथाऽपि भवदानीतं मोषमहं निगमयिष्यामि भक्तकादि च भवतामहं दास्यामि, किं भवन्तो निर्व्यापारास्तिष्ठन्तीत्युक्तिभिश्चौरान प्रेरयतः चोरयत ययमित्यहं न भणामीत्यभिसन्धिना तव्यापारणं ||"
परिहरतो व्रतापेक्षित्वादतिचारः । तथा कूटतुलादितत्प्रतिरूपयोः परवञ्चनारूपत्वात्ताभ्यामदत्तादानविरतेभङ्ग एव, न केवलं क्षत्रखननायेव चौर्य, कूटतुलादि तत्प्रतिरूपकरणं तु वणिक्कलैवेति स्वकल्पनया व्रतरक्षणोद्यतस्यातिचारावे.
Jain Education inte
For Private & Personel Use Only
P
ww.jainelibrary.org