SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ उक्तं तृतीयाणुव्रतस्य पञ्चमं गुणद्वारमधुना षष्ठं यतनाद्वारमाह उचियकलं जाणिजसु धरिमे मेए कलंतराइसु य । पडियस्स य गहणंमी जयणा सव्वत्थ कायब्वा ॥ ४२ ॥ __उचिता चासौ कला च उचितकला-अष्टगुणलाभादिलक्षणा तां 'जानीयात् ' अवगच्छेत् , अदत्तादानवतीति शेषः, क केत्याह-धरिमे ' प्रियते-स्थाप्यते तुलादौ परिमाणावगमाय यत्तद्धरिमं-गुडादि तस्मिन्, तथा मीयते-परिच्छिद्यते असृतिप्रसूतिसेतिकादिमानेन यत्तन्मयं धान्यादि तत्र, तथा कलान्तरं-वृद्धिप्रयुक्तधनस्य लाभादानं तदादिर्येषां, आदिशब्दादेकदाने द्वयादानादिग्रहः, तानि तेषु कलान्तरादिषु, चशब्द उचितकलाविशेषज्ञापनार्थः, कलान्तरे शतं प्रति द्रम्मपच्चकाद्यादानलक्षणे उचितकला, तथा पतितस्य-भूम्यादावस्तस्यान्यदीयद्रव्यस्य, चः समुच्चये, स च ग्रहणे चेति योज्यः, ग्रहणम्-आदानं तस्मिंश्च, किं बहुना ? , उपदेशसर्वस्वमाह-'यतना' गुरुलाघवालोचनप्रवृत्तिलक्षणा 'सर्वत्र ' सर्वस्मिन् क्रयविक्रयादी कार्ये 'कर्त्तव्या' विधेयेत्यक्षरार्थः, भावार्थस्त्वयम्-गुडादौ । धान्यादौ कलान्तरादौ च देशकालाद्यपेक्षमुचितमेव लाभं गृह्णीयात, पतितादानेऽप्यल्पदोषबहुगुणालोचनया काष्ठलोष्टा Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy