SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ स्वप्मे तेषामकौशलम् । समुत्थाय शुचिर्भूत्वा, फलपुष्पसमन्वितः ॥ १२ ॥ गतः सुखासनस्थस्योपाध्यायस्य समीपकम् । कृतपूजोपचारश्च, स्वप्नं तस्य न्यवेदयत् ॥ १३ ॥ सोऽपि तस्य तदाकर्ण्य, ग्राहयित्वा स्वपुत्रिकाम् । समादिदेश सप्ताहाभ्यन्तरे राज्यमुत्तमम् ॥ १४ ॥ बिन्नातटपुरं प्राप्तो, मूलदेवः क्रमेण च । नगरारक्षकै रात्री, क्षेत्रद्वारे च वीक्षितः ॥ १५ ॥ गृहीतो लोप्वहस्तश्च, दण्डाघातैः प्रताडितः । शरावमालिकां कण्ठे, कारितो बाहुबन्धनः । ॥ १६ ॥ आरोप्य रासभं नेतमारब्धो वध्यभमिकाम् । एवं कष्टदशां प्राप्तश्चिन्तयामास चेतसि ॥ १७ ॥ IN वचो देव्याः, उपाध्यायस्य चाधुना । मदीयापुण्यसंभारभाराक्रान्तं भविष्यति ॥ १८ ॥ अत्रान्तरे-अपुत्रो नृपतिस्तत्र, जगाम यममन्दिरम् । पञ्चदिव्याभिषेकोऽभूत्ततस्तानि भ्रमन्ति च ॥ १९ ॥ समायातानि तत्रैव, पथि यत्र स.. नीयते । वध्यभूमि ततो हस्ती, विधाय गलगर्जितम् ॥ २०॥ करेण तं समादाय, निजस्कन्धमरोपयत् । हेपारवं, तुरङ्गश्च, चके श्रवणसौख्यदम् ॥ २१ ॥ उद्दण्डपुण्डरीक चोपरिष्टात् शिरसोऽभवत् । वीजितं तत्क्षणादेव, चञ्च चामरयोर्युगम् ॥ २२ ॥ अनाहतोऽपि गम्भीरस्वरं दध्वान दुन्दुभिः । पतिता पुष्पवृष्टिश्च वष्टं गन्धोदकं तथा ॥२३॥ al सर्वतो बन्दिवृन्दस्योत्तस्थौ जयजयारवः । सान्निध्यतुष्टमनसो, ननृतुश्च पुराङ्गनाः ॥ २४ ॥ एवं महाविभूत्या च, Jain Education Intern For Private & Personel Use Only Tww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy